________________
--
पुरुषस्य भगिनी-सहजाता ऋषभस्य पत्नी भविष्यतीति सारवणा-तस्याः सङ्गोपना, इदं च पाठान्तरं किल भगवतोनन्दायाश्च तुल्यवयस्त्वख्यापनाफलं, तथा चानन्तरमेव वक्ष्यति-नंदाएँ सुमंगला सहितो' अन्येतु प्रतिपादयन्ति-सर्वेवेयं जन्मद्वारवक्तव्यता, द्वारगाथाऽपि किलैवं तैः पठ्यते-'जम्मणे य विवड्डीय जाईसरणे इय' इति ॥ सम्प्रति वृद्धिद्वारमधिकृत्याहअह वहइ सो भयवं दियलोगचुतो य अणुवमसिरीओ। देवगणसंपरिबुडो नंदाएँ सुमंगलासहितो॥ १८७ ॥ | असियसिरतो सुनयणो थियोट्ठो धवलदंतपंतीओ। वरपउमगम्भगोरो फुल्लुप्पलगंधनीसासो ॥१८८॥ | देवलोकात्-सर्वार्थसिद्धिविमानरूपकात् च्युतः सन् अथ-जन्मानन्तरं वर्द्धते स ऋषभनाथो भगवान्, किंविशिष्टः सन्नित्याह-अनुपमश्रीका-निरुपमदेहकान्तिकलितः, 'देवगणसंपरिवृतः' सेवागतनानाविधदेवपरिवारोपेतो नन्दया| सुमङ्गलया च सहितः सन्, ते अपि वर्द्रते इति भावः, तथा असिता:-कृष्णाः शिरोजा:-केशा यस्यासौ असितशिरोजः, शोभने नयने यस्यासौ सुनयनः, बिम्ब-गोल्लाफलं तद्वत् ओष्ठौ यस्य स बिम्बोष्ठः, धवले दन्तपती यस्य स धवल-11 दन्तपडिकः, वरपद्मगर्भ इव गौरो-निर्मलो वरपद्मगर्भगौरः, फुल्लोत्पलगन्धवन्निःश्वासो यस्य स तथा ॥ इदानीं जाति-1 स्मरणद्वारमभिधित्सुराह
जाईसरो उ भयवं अप्परिवडिएहिं तिहि उ नाणेहिं । कंतीए वुद्धीए य अन्भहितो तेहिं मणुएहिं ॥ १८९॥।
NI जाति स्मरतीति जातिस्मरो भगवान्, 'लिहादिभ्य' इत्यणपवादोऽचू, कथं जातिस्मर इत्याह-अप्रतिपतितैरेव बा.सू. ३३ ||त्रिभिः मतिश्रुतावधिरूपेज्ञानः अवधिज्ञानं हि भगवतो देवलोकिकमेवापच्युतं भवति, तथा कान्त्या च बुझ्या च तेभ्यः
-
-
-
Jain Education Inter
For Private & Personal use only
www.jainelibrary.org