________________
AAAAAAAAC%
समेतत् , 'नासानीसासवायवोझंति नासिकानिश्वासवातवाद्यं, अनेन तस्य श्लक्ष्णतामाह, 'चक्खुहरं'ति चक्षुहरति
आत्मवशं नयति विशिष्टरूपातिशयकलितत्वात् चक्षुर्हरं, वर्णस्पर्शयुक्तं अतिशायिना वर्णेनातिशायिना स्पर्शेन च युक्तं, 'हयलालापेलवाइरेग'मिति हयलाला-अश्वलाला तस्या अपि पेलवमतिरेकेण हयलालापेलवातिरेक, बाहुलकादेवं | समासः, विशिष्टमृदुत्वलघुत्वगुणोपेतमिति भावः, तथा कनकेन खचितानि-विच्छरितानि अन्तकर्माणि-अञ्चलयो
नलक्षणानि यस्य तत् कनकखचितान्तकर्म, 'अच्छरसातंदुलेहि'ति अच्छो रसो येषां ते अच्छरसाः, येषु प्रतिबिम्बमपि सङ्कान्तमुपलभ्यते इति, ते च ते तन्दुलाश्च अच्छरसतन्दुलाः, सूत्रे पूर्वपदस्य दीर्घान्तता प्राकृतत्वात् , 'पाडलियमल्लियेत्यादि, पाटलीमल्लिकाचम्पकाशोकपुन्नागचूतमञ्जरीनवमालिकाबकुलतिलककणवीरकुन्दकुलकोरण्टकानि प्रतीतानि पत्रप्रधानो दमनकः पत्रदमनकः एवंरूपश्चासौ वरसुरभिगन्धिकश्च पाटलो यावत्पत्रदमनकं वरसुरभिगन्धिकस्तस्य
ओघनिकर-उच्चस्त्वेन प्रवाहनिकर, 'चंदप्पभवहरे'त्यादि, चन्द्रप्रभः-चन्द्रकान्तो वनवैडूर्ये प्रसिद्ध तेषां तन्मयो विमलो दण्डो यस्य स तथा तं, काञ्चनमणिरत्नैर्भक्त्या-विच्छित्त्या चित्रं यस्य स तथा तं, उत्तमेन कालागुरुप्रवरकुन्दुरुष्कतुरुष्कधूपगन्धेनानुविद्धा कालागुरुप्रवरकुन्दुरुष्कतुरुष्कधूपगन्धोत्तमानुविद्धा, उत्तमशब्दस्य परनिपातःप्राग्वत् , तां धूमवत्ति विनिर्मुश्चन्तं, 'दसंगुलं अंजलि मिति अन्योऽन्यान्तरिता दश अङ्गुलयो यत्र सा दशाङ्गुलिस्तामञ्जलिं, 'अठसयविसुद्धगंधजुत्तेहिं' विशुद्धो-निर्मलो लक्षणदोषरहित इति भावः यो ग्रन्थः-शब्दसन्दर्भस्तेन युक्तानि विशुद्धग्रन्थयुक्तानि | अष्टशतं च तानि विशुद्धग्रन्थयुक्तानि च तैर्महावृत्तैरपुनरुक्कैरर्थसारैः, तथा नमोऽस्तु ते-तुभ्यं, सिद्धेत्यादीनि सर्वाण्यपि।
Forww.iainelibrary.org
Jain Education International
For Private
Personal Use Only