SearchBrowseAboutContactDonate
Page Preview
Page 376
Loading...
Download File
Download File
Page Text
________________ *%%ekkkkk% समया विमला: स्तम्भा यत्र तत्सुश्लिष्टविशिष्टलष्टसंस्थितप्रशस्तवैयविमलस्तम्भ, नानामणिकनकरनानि खचितानि यत्र स नानामणिकनकरनखचिता, सुखादिदर्शनानिष्ठान्तस्य परनिपातः, नानामणिकनकरत्नखचित उजवलो-निर्मलो बहुसम:अत्यन्तसमः सुविभक्तो भूमिभागो यत्र तत्तथा, 'कंधणमणिरयणथूभियाग'मिति काञ्चनमणिरत्नानां काश्चनमणिरत्नमयी स्तूपिका यत्र यत्तथा, नानाविधाभिः-मणिरत्नप्रकाराभिः पश्चवर्णाभिः घण्टाभिः पताकाभिश्च परि-सामस्त्येन मण्डितमप्रशिखरं यस्य तत् नानाविधपञ्चवर्णघण्टापताकापरिमण्डितामशिखर, चपलं-चञ्चलं चिकचिकायमानत्वात्, मरीचिकवचं-किरणजालपरिक्षेपं विनिर्मुश्चत् 'लाउल्लोइयमहियं लाइयं नाम यत् भूमेर्गोमयादिना उपलेपनम् उल्लोइयं-कुख्यानां मालस्य च सेटिकादिभिः सम्मृष्टीकरणं लाउलोइयाभ्यामिव महितं-पूजितं लाउलोइयमहियं, तथा गोशीर्षेण-गोशीर्षनामकचन्दनेन सरसरक्तचन्दनेन च दईरेण-बहलेन चपेटाकारेण वा दत्ताः पञ्चाङ्गलयस्तला:-हस्तका यत्र तत् गोशीर्षचन्दनदईरदत्तपञ्चाङ्गुलितलं,तथा उपचिता-निवेशिताःचन्दनकलशा-मङ्गलकलशा यत्र तदुपचितचन्दनकलश, तथा चन्दनघटैःचन्दनकलशैः सुकृतानि-सुष्टु कृतानि शोभितानीति तात्पर्यार्थः यानि तोरणानि तानि चन्दनघटसुकृतानि तोरणानि प्रतिद्वारदेशभार्ग-द्वारदेशभागे २ यत्र तत् चन्दनघटसुकृततोरणप्रतिद्वारदेशभागं, तथा आ-अवाक अधोभूमौ सक्त आसक्तः भूमौलग्न इत्यर्थः ऊर्ध्व सक्त उत्सतः उल्लोचतले उपरिसम्बद्ध इत्यर्थः विपुलो-विस्तीर्णः वृत्तो-वर्तल वग्धारियः-प्रलम्बितो माल्यदामकलाप:-पुष्पमालासमूहो यत्र तदासकोत्सतविपुलवृत्तप्रलम्बितमाल्यदामकलापः, तथा पञ्चवर्णेन सरसेनसाइँण सुरभिणा मुक्केन-क्षिप्लेन पुष्पपुञ्जलक्षणेनोपचारेण-पूजया कलितं पञ्चवर्णसरससुरभिमुक्तपुष्पपुझोपचारकलितं, Jain Education International For Private & Personal use only wjainelibrary.org
SR No.600043
Book TitleAvashyakasutram Part_1
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy