SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ उपोद्घाते ॥ १० ॥ Jain Education in | यतिभावं वा शरीरं चोपलभ्योपजायते प्रायः कस्याप्यासन्नमुक्तिगामिनः सम्यग्दर्शनादिरूपभावमङ्गलपरिणामः, उक्तं च - " अहवा नामंठवणादवाईं भावमङ्गलंगाई । पाएण भावमङ्गलपरिणामनिमित्तभावाओ ॥ १ ॥ जह मङ्गलाभिहाणं सिद्धं विजयं जिणिंदनामं च । सोऊण पेच्छिऊण य जिणपडिमा लक्खणाई च ॥ २ ॥ परिनिब्बुयमुणिदेहं भवं जइजण सुवण्णमल्लाइ । दहूण भावमङ्गलपरिणामो होइ पाएण ॥ २ ॥” ( भा० ५६-५७-५८ ) अन्यच्च यद् वस्तुनोऽभिधानं तंदू अभिधेयधर्ममन्तरेण नोपजायते, अभिधानाभिधेययोर्वाच्यवाचकसम्बन्धेन परस्परम विनाभावित्वात्, अभिधेयधमोऽपि च नामादिविचारप्रक्रमे नामाभिधीयते, अभिधेये अभिधानोपचारात्, यश्च प्रतिनियत आकाशे घटादिवस्तुनः सा स्थापना, या च तचद्रूपतया परिणमनशक्तिः सा द्रव्यं कारणत्वात्, यश्च साक्षात् पुरः परिस्फुरन् प्रतिभासते पर्यायः स भावः, उतं च- "अहवा वत्थुऽभिहाणं नामं ठवणा य जो तदागारो । कारणया से दवं कज्जावन्नं तयं भावो ॥ १ ॥" ( भा० ६० ) ॥ ततो यद्वस्तु तन्नामादिचतुष्टयात्मकं तदन्तरेण वस्तुत्वायोगादिति तात्त्विकानि नामादीनि । एवं च तात्त्विकनामादिचतुष्टयात्मके सर्वस्मिन्नपि वस्तुनि व्यवस्थिते ये एकैकांशावलम्बिनो नामादिनयाः, तद्यथानामनय आह-वस्तुधर्मो नाम तत्प्रत्ययहेतुत्वात्, यद् यस्य प्रत्ययहेतुस्तत्तद्धर्मो यथा घटस्य स्वरूपादयः, वस्तुनः प्रत्ययहेतुश्च नाम ततो निःसन्दिग्धाविपरीतप्रतीतिसमुद्भवात्, तस्माद्वस्तुधर्मो नाम, यदि पुनर्वस्तुधर्मो नाम न स्यात् ततस्तद्वस्तु वस्त्वेव न स्यात्, निरभिधेयत्वात् षष्ठभूतवत्, अन्यच्च-वस्तुधर्मत्वाभावे घट इति नाम्न्युच्चरिते घटः इति प्रतीतिर्निःसन्दिग्धा न स्यात् | प्रतिवन्धाभावात्, किन्तु केषांचित्संशयो यथा किमयमाह ?, केषांचित्कदाचिद्विपर्ययो यथाऽनेन पटः प्रोत इति, अन्येषां For Private & Personal Use Only नामादीना विशिष्टता पर्यायता च ॥ १० ॥ www.jainelibrary.org
SR No.600043
Book TitleAvashyakasutram Part_1
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy