SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ USSS पतिः साक्षादालिखित इत्यादि, द्रष्टुथ तदाकारदर्शनात् प्रत्ययो यथाऽयमिन्द्रो वर्तत इति, प्रणतिकृतश्च फलार्थिनः स्तोतुं प्रवर्तते, फलं च किश्चिदभीष्ट देवतानियोगात् प्राप्नुवन्ति, न तथा नामेन्द्रे नापि द्रव्येन्द्र, ततो नामद्रव्याभ्यामित्थं स्थापनाया विशेषः, उक्तं च-"आगारोऽभिप्पाओ बुद्धी किरिया फलं च पारणं । जह दीसइ ठवर्णिदे न तहा नामे न दविंदे ॥१॥" (भा०५३) यथा स द्रव्येन्द्रो भावेन्द्र कारणतां प्रतिपद्यते प्रतिपन्नवान् वा भावेन्द्रतां उपयोगापे. क्षायामपि तदुपयोगतामासादयिष्यति अवाप्तवान् वा न तथा नामेन्द्रो नापि स्थापनेन्द्र इति नामस्थापनाभ्यां द्रव्यस्य विशेषः, स्थापनाद्रव्यलक्षणव्यतिरिक्तस्वरूपं तु नामेति द्रव्यस्थापनाभ्यां नानो विभिन्नता, अपरस्त्वाह-भावमङ्गलमेवैकं भावानामेवार्थक्रियाकारित्वात् ये तु नामादयस्ते सङ्कल्पमात्रसम्पादितसत्ताका इति किं तेषामुपन्यासेन, तदेतदसम्यक्, नामादीनामपि भाववत्, तात्त्विकत्वात् तेषामपि भाववदविशेषेण शब्दतः प्रतीतेः, तथाहि-अविशिष्टे इन्द्रवस्तुन्युच्चरिते नामादिचतुष्टयमविशेषेण प्रतीतिमासादयति, किमनेन नामेन्द्रो विवक्षितः आहोश्चित् स्थापनेन्द्रो द्रव्येन्द्रो भावेन्द्रो वा इति?, ततो यथा घट इत्युक्ते कोऽनेन घटो विवक्षितो रक्तः कृष्णः शुक्ल: नीलो वेति शब्दतः प्रतीयमानाः सर्वेऽपि तात्त्विकास्तथैते नामादयोऽपीति, तथा च एतदेव साक्षेपपरिहारं भाष्यकृदाह-"इह भावोच्चिय वत्थु तदत्थसुन्नेहि किं नु सेसेहिं नामादओsवि भावानं तेऽविहु वत्थुपजाया ॥१॥"(भा० ५५) अत्र 'वत्थुपज्जाया' ॥ इति इन्द्रादिरूपस्य सामान्यवस्तुनो विशेषा, इतश्च नामस्थापनाद्रव्याणि तात्त्विकानिं भावमङ्गलाङ्गत्वात्, तदङ्गताच तत्परिणामकारणत्वात् , तथाहि-मालाभिधानं सिद्धाराभिधानं चोपश्चल भगवदहत्प्रतिमां वारदा भूतयतिभावं भव्य Jain Education International For Private & Personal use only www.jainelibrary.org
SR No.600043
Book TitleAvashyakasutram Part_1
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy