________________
-
+
उपोद्धाते
भावम
AACC
अन्यथा तज्ज्ञाने सत्यप्यसौ नोपलभेत, अतन्मयत्वात्, प्रदीपहस्तान्धवत् पुरुषान्तरवद्वा, बन्धाधभावप्रसङ्गश्व, ज्ञानाज्ञानसुखदुःखपरिणामशून्यत्वात्, आकाशवत् , न खल्वाकाशं ज्ञानाज्ञानसुखदुःखपरिणामरहितं बन्धमोक्षाम्यां युज्यते, तस्मात्कथञ्चिदव्यतिरेको ज्ञानज्ञानिनोः, न च निराकारं ज्ञानं, अनाकारत्वे पदार्थान्तरवत् विवक्षितस्यापि पदार्थस्य परिच्छेदाप्रसकेः, तदाकारशून्यत्वाविशेषात् , ततो ज्ञानस्याझ्याकारत्वात्तदव्यतिरिक्त आत्माऽप्यन्याकार इत्यग्निर्माणवकः, न चैवं दहनपचनप्रकाशनाद्यर्थक्रियाप्रसक्तिः, सर्वस्याग्नेर्दहनाद्यर्थक्रियाप्रसाधकत्वायोगात् भस्मच्छन्नाग्निना व्यभिचारादिति, नोआगमतो भावमङ्गलं 'सुविशुद्धः क्षायिकादिको भावः', नोशब्दोऽत्र सर्वनिषेधवाची, उकं च-मङ्गलसुयउवउत्तो आगमओ भावमङ्गलं होई । नोआगमओ भावो सुविसुद्धो खाइयाईओ॥१॥" (भा० ४९) अथवा-नोआगमतो भावमङ्गलमागमवर्ज ज्ञानचतुष्टयं सर्वनिषेधवचनत्वानोशब्दस्य, यदिवा यः सम्यग्दर्शनशानचारित्रपरिणामः स न आगम एव केवलो नाप्यनागमः किन्वागमसम्मिश्र इति नोआगमतो भावमङ्गलं, नोशब्दोऽत्र मिश्रवचन, आह - " (अहवा) सम्मइंसणनाणचरिचोवयोगपरिणामोनोआगमओ भावो नोसद्दो मीसभावमि ॥१॥"(भा० ५.) यदिवा यो भगवदहनमस्काराधुपयोगः स खल्वागमैकदेशो, विवक्षिताध्ययनाथपेक्षया तस्यैकदेशत्वात्, ततो नोशब्दस्य देशवाचित्वात् नोआगमतः स भावमङ्गलं । ननु नामस्थापनाद्रव्येषु मङ्गलाभिधानं विवक्षितभावशून्यत्वात् द्रव्यत्वं च समानमतः एषां प्रतिविशेषः, उच्यते, इह यथा स्थापनेन्द्र लोचनसहस्रकुण्डलकिरीटकरकुलिशधारणशचीसविधानसिंहासनाध्यासनादिजनितातिशय खस्विन्द्राकारो लक्ष्यते, कषुध सतेन्द्राभिप्रायो भवति यथाऽयं मया स्वर्गाधित
USAX
Jain Education Inte
For Private & Personal use only
hollww.jainelibrary.org