________________
'तस्स वा जयं जोग्ग मिति तस्य वा-चरणकरणक्रियापरिणामस्य यद्योग्य बालकादिशरीरं, शेष सुगमम् । उकं द्रव्यमङ्गलं, अधुना भावमङ्गलमभिधातव्यं, भावस्य च लक्षणमिदं-भावो विवक्षितक्रियानुभूतियुक्तो हि वै समाख्यातः । सर्वज्ञैरिन्दादिवदिहेन्दनादिक्रियानुभवात् ॥१॥" अस्यायमर्थः-भवनं भावः, विवक्षितरूपेण परिणमनमित्यर्थः, यदिवा भवतीति भावः, 'सहादिदुनीभूग्रहो णो वेति कर्तरि णप्रत्ययः, विवक्षितरूपेण परिणत इत्यर्थः, सर्वज्ञैः समाख्यातः, कोऽसावित्याह-'विवक्षितक्रियानुभूतियुक्तः' वक्तुर्या विवक्षिता इन्दनज्वलनजीवनादिका क्रिया तस्या अनुभूतिः-अनुभवनं तया युक्तो विवक्षितक्रियानुभूतियुक्तः, क इवेत्याह-इन्दनादिक्रियानुभवात् , अत्रादिशब्दात् ज्वलनजीवनादिक्रियापरिग्रहः, इन्द्रादिवत्-शकादिवत्, आदिशब्दाज्ज्वलनजीवादिपरिग्रहः, इन्दनादिक्रियानुभवयुक्तन्द्रादिवदिति भावः, अत्र भावतो मङ्गालं भावमङ्गलं यदिवा भावश्चासौ मङ्गलं च भावमङ्गलं, तच्च द्विधा-आगमतो नोआगमतश्च, तत्रागमतो मङ्गलपदा. र्थस्य ज्ञाता तत्र चोपयुक्ता, 'उपयोगोभावनिक्षेप' इति वचनात्, ननु मङ्गालपदार्थज्ञानोपयोगमात्रेण कथं पुरुषो भावमङ्गलं भवति !, न ह्यग्निज्ञानोपयुक्तो माणवकोऽग्निदहनपचनप्रकाशनाद्यर्थक्रियासाधकत्वाभावात् , तदेतदसम्यक्, अभिप्रायापरिज्ञानात् , संवित् ज्ञानमवगमो.भावोऽभिप्राय इत्यनान्तरं, 'अर्थाभिधानप्रत्ययाश्च तुल्यनामधेयाः सर्वप्रवादिनामविसंवादेन स्थिताः' तथाहि-बाह्यः पृथुवुनोदराकारोऽर्थोऽपि घट इति व्यपदिश्यते, तद्वाचकमभिधानं घट इति, तज्ज्ञा-है। नरूपः प्रत्ययोऽपि घट इति, तथा च लोके वकारः-किमिदं पुरो दृश्यते , घटः, किमसौ वकि, घट, किमस्य चेतसि स्फुरति, पटा, एवं च सति यदनिरिति ज्ञानं तदव्यतिरेकात माणवकोऽप्यनि: ज्ञानज्ञानिनोः कथंचिदव्यतिरेकात्,
SAGACANCAKACACAKACAKA
Tein Education Inter
For Private & Personal Use Only
Vivojainelibrary.org