SearchBrowseAboutContactDonate
Page Preview
Page 365
Loading...
Download File
Download File
Page Text
________________ उपोद्घातनिर्युक्तिः ॥ १७४ ॥ Jain Education Internation तथैवाज्ञया - युष्मदादेशेन कुर्म्म इत्येवंरूपेण विनयेन, 'तिक्खुत्तो उल्लालेइ' त्रिकृत्वस्ताडयति, 'तए ण' मित्यादि, ततस्तस्यां मेघौघर सितगम्भीरमधुरशब्दायां योजनपरिमण्डलायां सुघोषायां घण्टायां त्रिकृत्व उल्लालितायां सत्यां सौधर्मे कल्पे 'अन्नेहि' इत्यादौ सप्तम्यर्थे तृतीया अन्येष्वपि एकोनेषु द्वात्रिंशति विमानावासशतसहस्रेषु यान्यन्यानि एको नानि द्वात्रिंशत् घण्टाशतसहस्राणि तानि स्वयमेव यमकसमकम् - एककालं कणकणारवं प्रवृत्तान्यप्यभवन्, दिव्यप्रभाव एषः नात्र युक्तयन्तरमिति, ततः सौधर्म्मकल्पः प्रतिविमानप्रासादनिष्कुटेषु विमान निष्कुटेषु च ये आपतिताः शब्दाःशब्दवर्गणा पुद्गलास्तेभ्यः समुच्छलितानि यानि घण्टाप्रतिश्रुतां शतसहस्राणि तैः सङ्कुचितोऽपि जातोऽभवत्, किमुक्तं भवति १ - प्रतिविमानं कणकणारवं कर्त्तुं प्रवृत्तासु घण्टासु ये विनिर्गताः शब्दास्तत्प्रतिघातवशतः सर्वासु दिक्षु विदिक्षु च दिव्यानुभावतः समुच्छलितैः प्रतिशब्दैः सकलोऽपि सौधर्मकल्पो वधिरित इवोपजायते इति एतेन यदुच्यते द्वादशभ्यो योजनेभ्यः समागतः शब्दः श्रोत्रग्राह्यो भवति न परतः, ततः कथमेकत्र ताडितायां घण्टायां सकलेऽपि सौधर्मकल्पे शब्दश्रवणमिति तदपास्तमवगन्तव्यम्, उक्तयुक्तितः सर्वत्रापि शब्दश्रवणसम्भवात्, 'एगंतरई'त्यादि, एकान्तेनसर्वात्मना रतौ- रमणे प्रसक्ता एकान्तरतिप्रसक्ताः, अत एव नित्यं - सर्वकालं प्रमत्ता नित्यप्रमत्ताः कस्मादेवंभूता इति | चेत् अत आह—विषयसुखेषु मूर्छिता - अभ्युपपन्ना विषयसुखमूर्च्छितास्ततो विशेषणसमासस्तेषां सुस्वरघण्टा रसितरूपेण विपुलेन सकल सौधर्म्म कल्पव्यापिना बोलेन त्वरितं शीघ्रं चपले आकुले प्रतिबोधने कृते सति घोषणे कुतूहलेन दत्तौ कर्णौ यैस्ते घोषणकुतूहलदत्तकर्णाः, एकाग्रचित्ता घोषणावगमविषय निक्षिप्तमानसाः, एकाग्रचित्तत्वेऽपि कदाचिदन्तरा For Private & Personal Use Only शेषदेवप्रतिवाधनम् ॥ १७४ ॥ w.jainelibrary.org
SR No.600043
Book TitleAvashyakasutram Part_1
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy