________________
KAKKA
ऽर्थवद्विशेषणम्, अन्ये तु व्याचक्षते-इह यद्रव्यं विशिष्टवर्णादिगुणोपेतमभिनवं च वतरुणमिति लोके प्रसिद्धं, पथा
तरुणमिदमश्वत्थपत्रमिति, ततः स कर्मकरदारकस्तरुण इति किमुक्तं भवति ।-अभिनषो विशिष्टवर्णादिगुणोपेतश्चेति, तथा हायुग-सुषमदुषमादिः कालः स स्वेन रूपेण यस्यास्ति न दोषदुष्टः स युगवान् , कालोपद्रवरहित इत्यर्थः, बल-सामर्थ्य
तद् यस्यास्ति स बलवान् , 'अप्पायंके' इत्यादि,अल्पशब्दोऽभाववाची अल्प:-सर्वथा अविद्यमानः आतङ्को-ज्वरादिर्यस्य सोऽल्पातकः स्थिरं-दृढं प्रथममित्यर्थः संहननं यस्य स स्थिरसंहननः, तथा स्थिरौ-अग्रहस्तौ यस्य स स्थिराग्रहस्त:प्रतिपूर्णपाणिपादः, इतरस्य सम्यक्कमकरवायोगात्, 'पिटुंतरोरुसंघायपरिणए' पृष्ठं अन्तरे च-पार्श्वरूपे ऊरू च सहातेन-संहतत्वेन परिणती यस्य स पृष्ठान्तरोरुसङ्घातपरिणतः, दृढपृष्ठान्तरोरुरितिभावः, तथा धनम्-अतिशयेन निचितौ-निविडतरचयमापन्नौ वृत्तौ वलिताविव वलितौ स्कन्धी यस्य स निचितघनवृत्तवलितस्कन्धः, तथा
लहुने-अतिदीर्घस्यात्युच्चस्यापि चातिक्रमणे वल्गने प्रतीते जवने-वेगे व्यायामे च समर्थो लडनवल्गनजवनव्यायामस*मर्थः, तथा उरसि भवमुरस्यं तच्च तद्बलं च उरस्यवलं तत्समन्वागतः प्राप्त उरस्यवलसमन्वागतः, आन्तरोत्साहवीर्ययुक्त
इति भावः, तथा तलौ-तालवृक्षौ तयोर्यमलयुगलं-समश्रेणिकं युगलं तेन परिघेण च अतिसरलतया पीवरतया च निमौ-सदृशौ बाहू यस्य स तलयमलपरिघनिभवाहुः, छेको-द्वासप्ततिकलापण्डितः दक्षः-कार्याणामविलम्बितकारी कुशलः-सम्यक्रियापरिज्ञानवान् मेधावी-परस्पराव्याहतपूर्वापरानुसन्धानदक्षः अत एव निपुणं यथा भवति, एवं
-क्रियासु कौशलमुपगता-प्राची निपुणशिल्पोपगतः, 'दंडसंपुरछण'ति दंडपुच्छणकं शलाकाहस्तकं-सरत्पर्णादि
Jan Education Internation
For Private & Personal Use Only
www.jainelibrary.org