SearchBrowseAboutContactDonate
Page Preview
Page 351
Loading...
Download File
Download File
Page Text
________________ उपोद्घातनिर्युक्तिः ॥ १६७॥ ज्ञानिनो ज्ञानत्रयोपेतत्वात्, भाविकेवलज्ञानसम्भवाद्वा, ज्ञायकस्वा परेषां ज्ञानोत्पादकत्वात्, बुद्धस्य स्वयं बुद्धत्वाद् बोध| कस्य सद्धर्म्मदेशनया मार्गे प्रवर्त्तकत्वात् सर्वलोकनाथस्य इन्द्रादीनामपि नमस्करणीयत्वात् सर्वजगमङ्गलस्य भुवनत्रयेऽ|प्युपद्रवविनाशकत्वात् निम्मस्य क्वचिदपि ममत्वाभावात्, प्रवरं यत्कुशलं - कुशलानुष्ठानजन्यं तीर्थकरनामकर्म तस्मात् | समुद्भावः - उत्पत्तिर्यस्य स प्रवरकुशल समुद्भवस्तस्य जात्यक्षत्रियस्य भावक्षता त्रायकत्वात्, यदसि भगवतो लोकोत्तमस्य | जननी, तत् हे कृतार्थे ! धन्याऽसि - सपुण्यासि । 'वेडवियस मुग्धाएण' मित्यादि, वैक्रिय समुद्घातेन - वैक्रियकरणाय प्रयत्न★ विशेषेण समवहन्यन्ते, समवहता भवन्तीत्यर्थः, समवहताश्चात्मप्रदेशान् दूरतो विक्षिपन्ति, तथा चाह - 'संखेजाणि जोयणाणि दंड निसिरंति', दण्ड इव दण्ड और्ध्वाधआयतः शरीरवाहल्यो जीवप्रदेशसमूहस्तं शरीराद्वहिः सङ्ख्येयानि योजनानि यावत् निसृजन्ति-निष्काशयन्ति, निसृज्य तथाविधान् पुद्गलान् आददते, एतदेव दर्शयति तद्यथारत्नानां - कर्केतनादीनां वज्राणामित्यादि पाठसिद्धं यथावादरान् - असारान् पुद्गलान् परिशातयन्ति, तथा सूक्ष्मान्सारान् पुद्गलान् पर्यादाय चिकीर्षितरूपनिर्मापणार्थं द्वितीयमपि वारं वैक्रियसमुद्घातेन समवहन्यन्ते, समवहत्य च | यथोक्तानां रत्नादीनां योग्यान् पुद्गलान् यथाबादरान् परिशातयन्ति यथासूक्ष्मान् पर्याददते, 'से जहा नामए' इत्यादि, |सः - वक्ष्यमाणगुणो यथानामकः - अनिर्दिष्टनामा कश्चित् कर्म्मकरदारकः, किं विशिष्ट इत्याह-तरुणः - प्रवर्द्धमानवयाः, आह| दारकः प्रवर्द्धमानवया एव भवति ततः किमनेन विशेषणेन ?, न, आसन्नमृत्योः प्रवर्द्धमानवयस्त्वाभावात्, नहि आसन्न मृत्युः प्रवर्द्धमानवया भवति, न च तस्य विशिष्टसामर्थ्य सम्भवः आसन्न मृत्युत्वादेव, विशिष्टसामर्थ्यप्रतिपादनार्थश्चैष आरम्भस्ततो Jain Education Internation For Private & Personal Use Only दिकुमारीमहोत्सवः ॥ १६७ ॥ www.jainelibrary.org
SR No.600043
Book TitleAvashyakasutram Part_1
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy