SearchBrowseAboutContactDonate
Page Preview
Page 350
Loading...
Download File
Download File
Page Text
________________ CAAAAAAAAAAA+y. दिव्यतुटितानि-दिवतूर्याणि च तेषां शब्दाः सर्वदिव्यतुटितशब्दास्तेषां एकत्र मीलनेन य सङ्गतो तितरां नादोमहान् घोषः सर्वदिव्यतुटितशब्दसन्निनादस्तेन, 'ताए उकिट्ठाए' इत्यादि तया देवजनप्रशिद्धया उत्कृष्टया-प्रशस्तया शीघ्रसञ्चरणात् त्वरितया-शीघ्रतरमेव तया प्रदेशान्तरक्रमणात् चपलेव चपला तया-क्रोधाविष्टस्येव श्रमासंवेदनात् पण्डेव चण्डा तया शीघ्रत्वगुणयोगात् शीघ्रा तया शीघया परमोत्कृष्टवेगपरिणामोपेता जवना तया वातोद्धृतस्य दिगदन्तव्यापिनो रजस इव या गतिः सा उद्धृता तया, इत्थंभूतया दिव्यया देवगत्या 'आयाहिणं पयाहिणं करेंति' आ सर्वतः | समन्तात् परिभ्रमतां दक्षिणमेव जन्मभवनं यथा भवति, एवं प्रदक्षिणं कुर्वन्ति, 'करयलपरिग्गहिय'मित्यादि द्वयोहस्तयोरन्योऽन्यान्तरितालिकयोः सम्पुटरूपतया यदेकत्र मीलनं सा अञ्जलिस्तां, कथंभूतामित्याह करतलाभ्यां परिगृहीता-निष्पादिता करतलपरिगृहीता तां, तथा आवर्तनमावतः शिरस्यावों यस्यां सा शिरस्यावा 'कण्ठेकाल उरसिलोमे'त्यादिवत् अलुक्समासः तामत एव मस्तके कृत्वा नमोऽस्तु ते-तुभ्यं रत्नं भगवल्लक्षणं कुक्षौ धारयतीति रत्नकुक्षि-14 धारिका तस्याः सम्बोधनं रत्नकुक्षिधारिके, जगतः प्रदीप इव जगत्प्रदीपस्तदायिके, चक्षुरिव चक्षुः, चक्षुभवचक्षुरित्यर्थः तस्येदं भगवद्विशेषणं, भावचक्षुः किल विवेकरूपममूर्त भवति भगवांश्च साक्षान्मूर्त इत्यत आह-मूर्तस्य, तथा, सर्वजगजीववत्सलस्य 'छज्जीवहियं जिणा वेतीति वचनात् , तथा हितकर्येव हितकारका मार्गदेशिका च या वागृद्धिःवाक्सम्पद्, पुनः कथम्भूतेत्यत आह-विभुः-व्यापिका सर्वस्वस्वभाषानुगमनेन परिणमनात् तस्याः प्रभुः-स्वामी हितकर-18 मार्गदेशकवागृद्धिविभुप्रभुस्तस्य, पुंवद्भावः समासस्य कर्मधारयत्वात् , विभुशब्दस्य परनिपातः प्राकृतत्वात् , जिनस्य Jain Education inte For Private & Personal Use Only Howjainelibrary.org
SR No.600043
Book TitleAvashyakasutram Part_1
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy