SearchBrowseAboutContactDonate
Page Preview
Page 349
Loading...
Download File
Download File
Page Text
________________ उपोद्धातनियुक्तिः तया-स्तम्भोपरिवर्तिन्या वरवज्ररत्नमय्या वेदिकया परिगतं सत् यदभिरामं स्तम्भोद्गतवरवज्रवेदिकापरिगताभिरामं, तथा विद्यां धरन्तीति विद्याधरा:-विशिष्ट विद्याशक्तिमन्तस्तेषां यमलयुगलानि-समानशीलानि द्वन्द्वानि तेषां यन्त्राणि-प्रपञ्चविशेपाः अञ्चिषां-मणिरत्नप्रभाज्वालानां सहस्रर्मालनीयं-परिवारणीयं, किमुक्तं भवति -एवं नाम अत्यद्भुतमणिरत्न-IN प्रभाजालराकलितमवभाति यथा नूनमिदं न स्वाभाविक किन्तु विशिष्टविद्याशक्तिमत्पुरुषप्रपञ्चप्रभावितमिति, तथा रूपकसहस्रकलितं, तथा 'भिसमाणं' दीप्यमानं 'भिसंतं दिप्यंत'मितिवचनात्, 'भिन्भिसमाणम्'असकृत् देदीप्यमानं 'चक्खुल्लोयणलेसं'ति चक्षुः कर्तृ लोकने-अवलोकने लिसतीव दर्शनीयत्वातिशयभावात् यत्ततथा शुभस्पर्श, सश्रीक रूपम्-आकारो यत्र तत्सश्रीकरूपं, तथा घण्टावले:-घण्टापङ्के वातवशेन चलितायाः-कम्पितायाः मधुरः-श्रोत्रप्रियो मनोहरो-मनोनिवृत्तिकरः स्वरो यत्र तद् घण्टावलिचलितमधुरमनोहरस्वरं, शुभं यथोदितवास्तुलक्षणोपेतत्वात् , कान्तं कमनीयमत एव दर्शनीयं, 'निउणोवियमिसमिसंतमणिरयणघंटियाजालपरिक्खित्त'मिति निपुणमिति-निपुणक्रियमोवियत्ति-खचितानि मिसमिसंतत्ति-देदीप्यमानानि मणिरत्नानि यत्र घण्टिकाजाले तत्तथा तेन इत्यंभूतेन घण्टिकाजालेन-1 क्षुद्रघण्टिकासमूहेन परि सामस्त्येन क्षिप्तं यत्तत्तथा, 'सबड्डीए' इत्यादि सर्वव्या-परिवारादिकया सर्वद्युत्या-यथाशक्ति विस्फारितेन शरीराभरणतेजसा सर्वबलेन-समस्तानीकेन सर्वसमुदायेन-स्वस्वाभियोग्यादिसमस्तपरिवारेण सर्वादरेण|M ४ समस्तेन यावच्छतितो बलेन सर्वविभूत्या-सर्वसम्पदा सर्वविभूषया-यावच्छक्ति स्कारोदारशृङ्गारकरणेन सर्वसम्भ्रमेण सम्प्रमो नामात्र भगवत्समीपागमनं प्रति यावच्छक्ति त्वरिता प्रवृत्तिः 'सबदिबडियसहसंनिनाएणं'ति सर्वाणि च तानि* CHACANCACCAM ॥१६६॥ Jain Education Inten For Private & Personal use only to www.jainelibrary.org
SR No.600043
Book TitleAvashyakasutram Part_1
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy