SearchBrowseAboutContactDonate
Page Preview
Page 348
Loading...
Download File
Download File
Page Text
________________ 3 % ActoCHOCOLARRECT सुमनसस्तेषां भावस्सौमनस्वं परमं च तत् सौमनस्यं च परमसौमनस्यं तत्सञ्जातं यासां ताः परमसोमनस्थिताः एतदेव व्यक्तीकरोति-'हरिसवसविसप्पमाणहियया' हर्षवशेन विसप्प-विस्तारयायि हृदयं यासां ता हर्षवशविसर्पदहृदयाः, हर्षवशादेव च विकसिते वरकमलवन्नयने यासां ता विकसितवरकमलनयनाः, हर्षवमच्छरीरोद्धर्षे 'पयलियवरकडगडियकेयूरमउडकुंडले'त्ति प्रचलितानि वराणि कटकानि-कलाचिकाभरणानि त्रुटितानि-बाहुरक्षिकाः केयूराणि-बाह्वाभरणविशेषरूपाणि मुकुटा:-शिरोभूषणानि कुण्डलानि-कर्णाभरणानि यासां ताः प्रचलितवरकटकत्रुटितकेयूरमुकुटकुण्डला, तथा द्वारेण विराजमानमत एव रतिदं वक्षो यासां ता हारविराजमानरतिदवक्षसः, ततः पूर्वपदेन विशेषणसमासः, तथा प्रलम्वते इति प्रलम्वः-आभरणविशेषः तं प्रलम्बमानं घोलन्ति भूषणानि च धरन्तीति प्रलम्बमानप्रलम्बघोलभूषणधराः, प्रलम्बमानपदस्य विशेष्यात् परनिपातःप्राकृतत्वाद् , हर्षवशादेव 'ससम्भ्रम' सम्धमः इह विवक्षितक्रियायामादरबहुमानपूर्विका प्रवृत्तिः सह सम्धमो यस्याभ्युत्थानस्य तत्ससम्भ्रमं, क्रियाविशेषणमेतत् , त्वरितं-शीघ्रं चपलं-सम्भ्रमवशा देव यथा व्याकुलं भवति, एवं च सिंहासनादम्युत्तिष्ठन्ति, 'अञ्जलियमउलियहत्था' इति अञ्जल्या-अञ्जलिरूपतया मुकु६लितौ हस्ती यासां तास्तथा, 'एवं जहा सक्के' इति एवं यथा शके वक्ष्यमाणं तथाऽत्र वेदितव्यम् , 'अणेगखंभसयसंनिविट्ठ'★ मिति अनेकेषु स्तम्भशतेषु निविष्टमनेकस्तम्भशतनिविष्टं 'लीलट्ठियसालभंजियाग मिति लीलया स्थिताः लीलास्थिताः शा लभञ्जिका:-पुत्तलिका यत्र तत्तथा, 'ईहामियेत्यादि ईहामृगा-वृका व्याला:-श्वापदभुजगा ईहामृगऋषभतुरगनरमकरविहगव्यालकिन्नरहरुसरभचमरकुंजरवनलतापालतानां भक्त्या-विच्छित्त्या चित्रम्-आलेखो यत्र तत्तथा, तथा स्तम्भोद्ग ACACCी Jain Education International For Private & Personal use only www.jainelibrary.org
SR No.600043
Book TitleAvashyakasutram Part_1
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy