________________
sts**
******korxkote
पुरिमेण पच्छिमेण य एए सोवि फासिया ठाणा । मझिमएहिं जिणेहिं एकं दो तिति सबे वा ॥ १७९॥ पूर्वेण ऋषभनाथेन पश्चिमेन च-वर्द्धमानस्वामिना प्राग्भवे एतानि अनन्तरोक्कानि स्थानानि सर्वाण्यपि स्पृष्टानिआसेवितानि, मध्यमैर्जिन:-अजितस्वामिप्रभृतिभिरेक दे त्रीणि सर्वाणि वा स्पृष्टानि, किमुक्तं भवति ?-केनाप्येकं केनापि द्वे केनापि त्रीणि केनापि सर्वाण्यपीति ॥ आह
तं च कहं वेइजह ? अगिलाए धम्मदेसणाईहिं । बज्झइ तं तु भयंवतो, तइयभवोसक्कइत्ताणं ॥१८॥ | चशब्दः पुनरर्थे, तत्पुनः-तीर्थकरनामकर्म विपाकावस्थाप्राप्तं कथं वेद्यते , एवं शिष्येण प्रश्न कृते सति सूरिराह-अग्लान्या-लानिपरिहारेण धर्मदेशनादिभिः-अष्टमहाप्रातिहार्यादिरूपे सुरेन्द्रकृते पूजोपचारे सति सदेवमनुजासुरायां पर्षदि धर्मदेशनया-श्रुतचारित्ररूपधर्मप्ररूपणया, आदिशब्दाच्चतुस्त्रिंशता देहसौगन्ध्यादिभिरतिशयैः
पश्चत्रिंशता बुद्धवचनातिशेषरित्यादिपरिग्रहः, तत्तु-तीर्थकरनामकर्म भगवतस्तीर्थकरभवात् प्राक् अवष्वष्क्य-पृष्ठतो है गत्वा तृतीयभवं प्राप्य बध्यते-बन्धमायाति ॥ आह-तीर्थकरनामकर्मणो जघन्यत उत्कर्षतश्च बन्धस्थितिरन्तःसाग
रोपमकोटीकोटीप्रमाणा, ततः कथमुक्त तीर्थकरभवात्प्राक् अववष्क्य तृतीयभवे वध्यते इति !, नैष दोषः, बध्यते इति किमुक्कं भवति !, निकाचितावस्थीक्रियते, द्विविधो हि बन्धो-निकाचनारूपोऽनिकाचनारूपश्च, तत्रानिकाचनारूपस्तृतीयभवात् प्राक्तरामपि भवति, जघन्यतोऽप्यन्तःसागरोपमकोटीकोटीस्थितिकत्वात् , निकाचनारूपस्तु तीर्थकरभवात् प्राक् तृतीयभव एवाधिकृतवचनप्रामाण्यात् , तत्र निकाचितमवन्ध्यफलमितरत्तुभयथापि, 'बन्धा(यदा')ोसक
Jain Education International
For Private & Personal use only
www.jainelibrary.org