SearchBrowseAboutContactDonate
Page Preview
Page 339
Loading...
Download File
Download File
Page Text
________________ उपोदात- नियुक्तिः ॥१६॥ गुणाः, एतेषु निरतिचारः सन् तीर्थकरनामकर्म बनातीति क्रियायोगः १२-१३ एतावता पञ्च कारणान्युक्तानि, तथा विंशतिः क्षणलवे १४ तपसि १५ त्यागे १६ वैयावृत्त्ये १७ च समाधिस्तीर्थकरनामकर्मबन्धकारणं, तत्र क्षणलवग्रहणमशेषकाल स्थानकानि विशेषोपलक्षणं, क्षणलवादिषु कालविशेषेषु निरन्तरं संवेगभावनातो ध्यानासेवनतश्च समाधिः क्षणलवसमाधिः, तथा दगा.१७६० तपसि-बाह्याभ्यन्तरभेदभिन्ने यथाशक्ति निरन्तरं प्रवृत्तिः तपःसमाधिः, त्यागो द्विधा-द्रव्यत्यागो भावत्यागश्च, द्रव्यत्यागो नाम आहारोपषिशय्यादीनामप्रायोग्याणां परित्यागः, प्रायोग्याणां यतिजनेभ्यो दानं, भावत्यागः क्रोधादीनां विवेको ज्ञानादीनां यतिजनेभ्यो वितरणं, एतस्मिन् द्विविधेऽपि त्यागे सूत्रानतिक्रमेण यथाशक्ति निरन्तरं प्रवृत्तिस्त्यागसमाधिः, वैयावृत्त्यं दशविधं, तद्यथा-आचार्यवैयावृत्त्यं १ उपाध्यायवैयावृत्त्यं २ स्थविरवैयावृत्त्यं ३ तपस्विवैयावृत्त्यं । ग्लानवैयावृत्यं ५ शैक्षकवैयावृत्त्यं ६ साधर्मिकवैयावृत्त्यं ७ कुलवैयावृत्त्यं ८ गणवैयावृत्त्यं ९ सवैयावृत्त्यं चेति १०, एकैकं त्रयोदशविधं, तद्यथा-भक्तदानं १ पानदानं २ आसनप्रदानं ३ उपकरणप्रत्युपेक्षा ४ पादप्रमार्जनं ५ वस्त्रदानं ६ भैषजदानं ७ अध्वनि साहाय्यं ८ दुष्टस्तेनादिभ्यो रक्षणं ९ वसतौ प्रविशतां दण्डकग्रहणं १० कायिकामात्रकसमप्पणं ११ संज्ञामात्रकसमर्पणं १२ श्लेष्ममात्रकसमर्पण १३ मिति, एतेषु वैयावृत्त्यभेदेषु यथाशक्ति निरन्तरं प्रवृत्तियावृत्त्यसमाधिः । तृतीयगाथाव्याख्या-'अप्पुबे'त्यादि, अपूर्वस्य ज्ञानस्य निरन्तरं ग्रहणमपूर्वग्रहणं १८ अष्टादशं तीर्थ- ॥१६॥ करनामकर्मबन्धकारणम् , एकोनविंशतितमं श्रुतभक्तिः-श्रुतविषयं बहुमानं १९ विंशतितमं प्रवचनप्रभावना, सा च यथाशक्ति प्रवचनार्थोपदेशदानादिरूपा २० । एभिरनन्तरोक्कैः कारणैस्तीर्थकरत्वं लभते जीवः॥ SAMACHAR k Jain Educalante For Private & Personal use only ww.jainelibrary.org
SR No.600043
Book TitleAvashyakasutram Part_1
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy