SearchBrowseAboutContactDonate
Page Preview
Page 338
Loading...
Download File
Download File
Page Text
________________ C ॐ4% ASS4 अत्र प्रथमगाथया अष्टौ कारणान्युक्तानि द्वितीयगाथवा नव तृतीयगाथया त्रीणि, तत्र प्रथमगाधान्याख्या-अशो-18 काद्यष्टमहाप्रातिहार्यादिरूपां पूजामहन्तीत्यर्हन्तः-तीर्थकराः १ अपगतसकलकर्माशाः परमसुखिन एकान्तकृतकृत्याः सिद्धाः २ प्रवचनं-द्वादशाङ्गं तदुपयोगानन्यत्वात् सो वा प्रवचनं ३ गृणन्ति यथावस्थितं शास्त्रार्थमिति गुरवोधर्मोपदेशादिदातारः ४ स्थविरा जातिश्रुतपर्यायभेदभिन्नाः, तत्र जातिस्थविराः षष्टिवर्षप्रमाणाः श्रुतस्थविराः समवायधराः पर्यायस्थविरा विंशतिवर्षव्रतपर्यायाः५बहु श्रुतं येषां ते बहुश्रुताः, तच्च बहुश्रुतमापेक्षिकं प्रतिपत्तव्यं, श्रुतं च विधासूत्रतोऽर्थत उभयतश्च, तत्र सूत्रधरेभ्योऽर्थधराः प्रधानास्तेभ्योऽप्युभयधराः प्रधाना इति ६ तथा विचित्रमनशनादिभेद-17 / भिन्नं तपो विद्यते येषां ते तपस्विनः-सामान्यसाधवः, अर्हन्तश्च सिद्धाश्च प्रवचनं च गुरवश्च स्थविराश्च बहुश्रुताश्च तपस्विनश्च अहेत्सिद्धप्रवचनगुरुस्थविरबहुश्रुततपस्विनः सूत्रे 'बहुरमुए' इत्यत्र एकारः प्राकृतत्वादलाक्षणिकस्तेषु, 'एसिं'ति प्राकृतत्वात् सप्तम्यर्थे षष्ठी, भवति च प्राकृतत्वाद्विभक्तिव्यत्ययो, यदाह पाणिनिः स्वप्राकृतलक्षणे-"व्यत्ययोऽप्यासा"मिति, एतेषु सप्तम स्थानेषु वत्सलभावो वत्सलता-अनुरागः यथावस्थितगुणोत्कीरीनं तदनुरूपोपचारलक्षणः तीर्थकरनामकर्मबन्धकारणमिति योगः, तथा अभीक्ष्णम्-अनवरतं ज्ञानोपयोगो-ज्ञाने व्याप्रियमाणता, इदमष्टमं कारणं । द्वितीयगाथाव्याख्या-'दसणे'त्यादि, दर्शन-सम्यक्त्वं विनयो-ज्ञानादिविनयः, स च दशवैकालिकनियुक्तरवसेयो वक्ष्यमाणो| वा, दर्शनं च विनयश्च दर्शनविनयं समाहारो द्वन्द्वः तस्मिन् ९-१० आवश्यकं-अवश्यकत्तव्यं प्रतिक्रमणादि तसिन् ११ शीलानि च प्रतानि च शीउजतं अत्रापि समाझरद्धन्दा तस्मिन, वत्र प्रावि-मूलगुणाः भीठानि-उत्तर %*ॐ % % Inin Educalon inte For Private & Personal Use Only a w.jainelibrary.org
SR No.600043
Book TitleAvashyakasutram Part_1
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy