________________
उपोद्धातनियुक्तिः
भवागा. १७२-५ पीठादेः स्त्री
RAKESAK
॥१६॥
पढमो चउदसपुवी सेसा एकारसंगवी चरो।बीयो वेयावचं किडकम्मं तइयो कासी। १७४॥ भोगफलं बाहुबलं पसंसणा जेट इयर अचियतं । पढमो तित्थयरत्तं वीसहि ठाणेहिं कासीय ॥ १७५।। । साधु चिकित्सित्वा श्रामण्यं परिपाल्य पश्चानामपि देवलोकगमनम्, अच्युतकल्पे गमनमिति भावः, ततः च्युताः पुण्डरीकियां नगर्या वज्रसेनस्य सुता अभवन् , तत्र प्रथमो वैद्यसुतजीवोऽत्र वज्रनाभोऽभूत्, शेषास्तु राजश्रेष्ठयमात्यसार्थवाहसुताः क्रमेण बाहुसुबाहुपीठमहापीठा बभूवुः, तेषां च पिता वज्रसेननामा तीर्थकरो जातः, तेऽपि वज्रनाभादयः पञ्चापि तत्रैव तीर्थकरस्य पितुः समीपे निष्कान्ताः, तत्र प्रथमो वज्रनाभनामा चतुर्दशपूर्वी जातः, शेषाश्चत्वारोऽप्येकादशाङ्गविदः, तेषां पञ्चानां मध्ये द्वितीयो बाहुनामा वैयावृत्त्यं-भकपानादिनोपष्टन्भलक्षणं भोगफलं चक्रवर्तिभोगफलमकार्षीत् , तृतीयः सुबाहुनामा कृतिकर्म-साधुविश्रामणारूपं बहुफलं बाहुबलमकार्षीत्, ततस्तयोबोहसुबाहोयेष्ठयोर्वज्रनाभेन प्रशंसनम्, इतरयोः-कनिष्ठयोः पीठमहापीठयोरचियत्तं-गुरुषु प्रशंसां कुर्वत्सु मात्सर्य, तत्र प्रथमो वज्रनाभनामा तीर्थकरत्वं विंशत्या स्थानरकार्षीत् ॥ कानि पुनस्तानि विंशतिस्थानानीति तत्प्रतिपादकं गाथात्रयमाह
अरहंतसिद्पवयणगुरुथेरबहुस्सुएतवस्सीसुं। वच्छल्लया य एसिं अमिक्खनाणोवयोगे य॥१७६ ॥ दसणविणए आवस्सए य सीलपए निरइयारो। खणलवतवचियाए वेयावच्चे समाही य॥१७७।। अप्पुषनाणगहणे सुयभत्ती पवयणे पहावणया। एएहिं कारणेहिं तित्थयरतं छह जीवो ॥१७॥
॥१६॥
Jain Education inten
For Private & Personal Use Only
www.jainelibrary.org