________________
उपोद्घातनिर्युक्तिः
॥१५७॥
सप्तमः कुलकरो बभूव, 'विणीयभूमी' इति तस्य विनीताभूमी प्राय आसीत्, मरुदेवी च तस्य भार्या, राजा च प्राग्भवे वैरनाभः सन् प्रब्रज्यां गृहीत्वा तीर्थकरनामगोत्रं कर्म्म बद्धा मृत्वा सर्वार्थसिद्धिमवाप्य ततश्युत्वा तस्या मरुदेव्याः कुक्षौ तस्यां विनीतभूमौ ऋषभनाथः सञ्जातः, तस्य गर्भावतारसमये उत्तराषाढा नक्षत्रमासीत् ॥ सम्प्रति यथा भगवता सम्यक्त्वमवातं, यावतो वा भवानवाप्तसम्यक्त्वः संसारं पर्यटितवान् यथा च तेन तीर्थकरनामगोत्रं कर्म्म बद्धं तदेव - | त्सर्वमभिधित्सुः प्रथमतो भवद्वारगाथामाह
धण मिहुण सुर महम्बल ललियंग य वइरजंघ मिहुणे य । सोहम्म विज अनुय चक्की सङ्घ उसमे य ॥ (अव्या. हा.) प्रथमभवे धनसार्थवाह आसीत्, द्वितीयभवे उत्तरकुरुषु मिथुनकः तृतीयभवे सौधर्म्मदेवलोके सुरः चतुर्थभवे गन्धिलावतीविजये - गन्धारविषये गन्धसमृद्धे महाबलो राजा पञ्चमे भवे ईशानदेवलोके ललिताङ्गनामा देवः षष्ठभवे महा | विदेहे वज्रजङ्घः सप्तमभवे भूयोऽप्युत्तरकुरुषु मिथुनकः अष्टमभवे सौधर्म्मदेवलोके देवः नवमभवे विदेहेषु वैद्यः दशम| भवे अच्युतदेवलोके देवः एकादशभवे वज्रनाभश्चक्रवर्त्ती द्वादशभवे सर्वार्थसिद्धिमहाविमाने देवः त्रयोदशभवे ऋषभनामा आदितीर्थकर इति ॥ एतानेव भवान् क्रमेण विवरीपुराह
Jain Education International
सत्थवाह घोसण जङ्गमणं अडवि वासठाणं च । बहु वोलीणे वासे चिंता घयदाणमासि तया ॥ १६८ ॥ प्रथमभवे धननामा सार्थवाह आसीत्, स च वसन्तपुरं प्रति प्रस्थितो घोषणां कृतवान् तेन सह यतीनां गमनमभूत्, अटव्यां च वर्षासु स्थानं, ततो बहुव्युत्क्रान्ते वर्षाकाले धनस्य चिन्ताऽभवत्, ततो घृतदानमासीत् तदेति गाथाक्षरार्थः ॥
For Private & Personal Use Only
नीतयः
श्री ऋषभपूर्वभवाः
गा. ६७१६८
॥१५७॥
www.jainelibrary.org