________________
सकस
भूता नयाः ते अत्यन्तविशुद्धत्वादागमतो द्रव्यमङ्गलमित्येव नानुमन्यन्ते, तथा च ते आहुः-आगमतो हि द्रव्यमङ्गलमिदमुच्यते मङ्गलशब्दार्थज्ञाता तत्र चानुपयुक्त इति, तदेतत्परस्परव्याहतं, यदि मङ्गलेशब्दार्थज्ञाता तर्हि कथमनुपयुक्तः, अनुपयुक्तश्चेत् कथं मङ्गलशब्दार्थज्ञाता, ज्ञानस्योपयोगात्मकत्वात् तदभावे तस्याप्यभावात् , न खलु जीवश्चेतनारहित इति शक्यं प्रतिपत्तुं सचेतसेति, उक्तं च-"जाणं नाणुवउत्तोऽणुवउत्सोवा न जाणई जम्हा। जाणतोऽणुवउत्तोत्ति त्रिति सद्दादओऽवत्थं ॥१॥" (भा० ४२) इत्थं चागमतो द्रव्यमङ्गलस्य नयैर्विचारः सूत्रेऽपि साक्षात् संवादी, तथा चानुयोगद्वारेवागमतो द्रव्यावश्यकमधिकृत्य सूत्रं-"नेगमस्स णं एगो अणुवउत्तो आगमतो एग दवावस्सयं दुन्नि अणुव उत्ता दोन्नि दवावस्सयाई तिन्नि अणुवउत्ता आगमओ तिण्णि दवावस्सयाई, एवं जावइया अणुवउत्ता आगमतो तावइयाइं नेगमस्स दवावस्सयाई, एवमेव ववहारस्सवि, संगहस्स णं एगो वा अणेगो वा अणुव उत्तो वा अणुवस्त्ता वा दवावस्मयं वा दवावस्सयाई वा से एगं दवावस्सयं, उजुमुयस्स आगमतो एवं दवावस्सयं, पुहुत्तं नेच्छइ, तिण्हं सदनयाणं जागए अणुवउत्ते अवलू |कन्हा, अइ जाणए अणुवउसे न भवई" इति । उक्तमागमतो द्रव्यमङ्गलमधुना नोआगमतोऽभिधीयते, तब विधा, तद्यथा-शारीरद्रव्यमङ्गलं भव्यशरीरद्रव्यमझालं ज्ञशरीरभव्यशरीरव्यतिरिक्तद्रव्यमङ्गलंच, तत्र यन्मङ्गलपदार्थज्ञस्यापग
तजीवितस्य शरीरं सिद्धिशिलातलादिगतं तद्भूतभावनया घृतमस्मिन् कुम्भे प्रक्षिप्तमासीदित्येष घृतकुम्भ इत्यादिवदतीनातनयानुवृत्त्या ज्ञशरीरद्रव्यमङ्गलं, यस्तु वालको नेदानी मङ्गलशब्दार्थमवबुध्यते अथचावश्यमायत्यां तेनैव शरीरसमुकृच्छ्रयेण भोत्स्यते स भाविभावनिवन्धनत्वाद् घृतमस्मिन् कुम्भे प्रक्षप्स्यते इत्येष घृतकुम्भ इत्यादिवद् भविष्यनयानुस
Jain Education International
For Private & Personal use only
www.jainelibrary.org