SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ उपोद्घाते ॥ ७ ॥ स्तेषामेव दोहवाहादिक्रियासूपयुज्यमानत्वात्, न सामान्यं तद्विपर्ययात्, न च तत् सदिति प्रत्येतुं शकुमः अनुपलम्भात्, नहि गवादीनिव विशेषान् शृङ्गग्राहिकया तेभ्यो व्यतिरिक्तं गोत्वादिसामान्यं पश्यामो, न चापश्यन्त आत्मानं विप्रलभेमहि, ततः कथं तदभ्युपगच्छामः ?, उपलंभव्यवहाराभावात् उक्तं च- 'न विसेसत्थंतरभूयं अथि सामन्नमाह विवहारो । उवलंभववहाराभावाओ खरविसाणं व ॥ १ ॥ ( भा० ३५ ) एवं चास्यापि मतेन नैगमनवस्येव एकोऽनुपयुक्त एकं द्रव्यमङ्गलं, भूयांसोऽनुपयुक्ता भूयांसि द्रव्यमङ्गलानि, ननु नैगमोऽपि विशेषानिच्छति व्यवहारोऽपि ततः | कोडनयोः प्रतिविशेषः ?, उक्तमेतत् नैगमः सामान्यमिच्छति विशेषांश्च व्यवहारस्तु विशेषानेवेति, सिद्धसेनीयाः पुनः षडेव नयानभ्युपगतवन्तः, नैगमस्य सङ्ग्रहव्यवहारयोरन्तर्भावविवक्षणात्, तथाहि यदा नैगमः सामान्यप्रतिपत्तिपरस्तदा | स सङ्ग्रहेऽन्तर्भवति सामान्याभ्युपगमपरत्वात् विशेषाभ्युपगमनिष्ठस्तु व्यवहारे, आह च सिद्धसेनीयमतमुपसंजिघृक्षुर्भाष्यकृत् -" जो सामन्नग्गाही स नेगमो संगहं गओ अहवा । इयरो ववहारमिओ जो तेण समाणनिदेसो ॥ १ ॥” ( भा० ३९ ) ततः सिद्धसेनीयाभिप्रायेण षङ्गिरेव नयैरागमतो द्रव्यमङ्गलविचारः कर्त्तव्यः न सप्तभिरिति, ऋजुसूत्रस्त्वभिधत्ते यदतीतं यच्चानागतं यच्च सदपि परकीर्य तदवस्तु, अतीतस्य विनष्टत्वात् अनागतस्य स्वलब्धात्मलाभत्वात् | परकीयस्य चार्थक्रियाकारित्वाभावात्, देवदत्तधनं हि यज्ञदत्तस्य परमार्थतोऽसत् तत्कार्याकरणादिति, प्रतिप्राणि प्रसिद्धमेतत्, किन्तु यत् सत् स्वकीयं तदेवैकं वस्तु, ततोऽस्य मतेनैकमेव द्रव्यमङ्गलं न भूयांसीति, उक्तं च- "उजुसुयस्स सयं संपर्यं च जं मंगलं तयं एकं । नातीतमणुप्पन्नं मंगलमिट्ठे परकं वा ॥ १ ॥ ( भा० ४० ) ये तु शब्दसमभिरूढैवं Jain Education interton For Private & Personal Use Only द्रव्यमङ्गले नयवि चारः ॥ ७ ॥ www.jainelibrary.org
SR No.600043
Book TitleAvashyakasutram Part_1
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy