SearchBrowseAboutContactDonate
Page Preview
Page 318
Loading...
Download File
Download File
Page Text
________________ C RSSC सो नपंसकं स्त्रियं वा प्रतिपादयतो मपुंसकोपयोगः रुयुपयोगो वा ततो भिन्नो वा स्यादमिनो वा!, यदि मिन्नस्तहि तस्यासाविति सम्बन्धानुपपत्तिः, तदनुपपत्तौ चोपयोगशून्यत्वात्पाषाणस्येव तस्य वचनप्रवृत्त्यसम्भवः, तथा च प्रत्यक्षविरोधः, अथाभिन्नः स तर्हि तदात्मक एव, तथाहि-यद्यस्मादभिन्नं तत्तन्मयमेव, यथा जीवश्चेतनामयः, पुमानपिच दीनपुंसकमभिदधानो नपुंसकोपयोगानन्यः, स्त्रियमभिदधानः युपयोगानन्य इति तन्मयः, ततः समानलिङ्गस्यैव निर्देशो न विसदृशलिङ्गस्य, उक्कं च-"सद्दो समाणलिंग निद्देसं भणति विसरिसमवत्थु । उवउत्तो निदिहा निदेसातो जतोऽनन्नो॥१॥ (वि. १५२३ ) एवमिहापि सामायिकस्यार्थरूपस्य रूढितो नपुंसकत्वात् स्त्रियाः पुरुषस्य नपुंसकस्य वा सामायिक प्रतिपादयतस्तदुपयोगानन्यत्वान्नपुंसकरूपतैवेति सामायिकमिति नपुंसकनिर्देश एवेति गाथासक्षेपार्थो, व्यासार्थस्तु भाष्यादवसातव्यः, सर्वनयमतान्यपि चामूनि पृथक् पृथग्विपरीतविषयत्वान्न प्रमाणं, समुदितानि तु समस्तान्तर्बाह्यनिमित्तसा-हा मग्रीसापेक्षत्वात्प्रमाणमित्यलं विस्तरेण, मन्दावबोधमात्रफलत्वात् प्रस्तुतप्रयासस्य ॥ सम्प्रति निर्गमद्वारप्रतिपादनार्थमाहनाम ठवणा दविए खेत्ते काले तहेव भावे य । एसो उ निग्गमस्सा निक्खेवो छविहो होइ ॥ १४२ ॥ नामस्थापने सुप्रतीते, द्रव्यनिर्गमोऽपि द्विधा-आगमतो नोआगमतश्च, तत्रागमतः पूर्ववत्, नोआगमतस्त्रिविधोज्ञशरीरभव्यशरीरतद्व्यतिरिक्तभेदात् , तत्र ज्ञशरीरभव्यशरीरे प्राग्वत् , तद्व्यतिरिक्कोऽनेकधा, तद्यथा-द्रव्याद् द्रव्यस्य वा विनिर्गमो द्रन्यविनिर्गमः, तत्र द्रव्यात् सचिवादचित्तान्मिश्राद्वा, द्रव्यस्य च ततःसचित्तादेःप्रत्येकं सचित्तस्याचित्तस्य | मिश्नस्य वा, तत्र सचित्तात्सचित्तस्य यथः पृथिव्या अङ्करस्य, सचित्तान्मिनस्य यथा भूमेः पतङ्गस्य, सचित्तादचित्तस्य । -०८२००५८५ - भा.सू.२६ A Jain Education tem For Private & Personal use only D w.jainelibrary.org
SR No.600043
Book TitleAvashyakasutram Part_1
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy