SearchBrowseAboutContactDonate
Page Preview
Page 317
Loading...
Download File
Download File
Page Text
________________ निश उपोद्घात- नियुक्तिः ॥१५॥ "संगहववहारनयवत्तच्या इत्थी इत्विं निहिसइ इथिनिसो, इत्थी पुरिसं निहिसइ पुरिसनिद्देसो, इत्थी नपुंसगं निदि-15 सइ नपुंसगनिद्देसो, एवं पुरिसनर्गुसगाणंपि भाणियवं," अथवा सामायिक नाम सावद्ययोगविरमणरूपं, तच्च सामायिकवतां सत्त्वानां स्त्रीलिङ्गानां पुँल्लिङ्गानां नपुंसकलिङ्गानां च परिणामानन्यदिति तस्य ख्यादिरूपतेति वाच्यवशेन त्रिलिजताऽपि सामायिकस्य सङ्ग्रहव्यवहारनयमतेन द्रष्टव्या, तथा 'निद्देसगमुजुसुतो' इति, निर्देशको-चका तमङ्गीकृत्य सामायिकनिर्देशमृजुसूत्रो मन्यते, तथाहि-स एवमभिधत्ते वचनं वक्तुरधीनं, तद्भावभावित्वात् , ततो यदेव वक्तुर्लिङ्गं तदेव वचनस्यापीति, यदा पुरुषो निर्देष्टा तदा सामायिकस्य पुंलिङ्गता यदा स्त्री तदा स्त्रीलिङ्गता, एवं नपुंसकेऽपि द्रष्ट-| व्यम्, उकै च-"उज्जुसुतो निद्देसगवसेण सामाइयं विणिद्दिसइ । वयणं वत्तुरहीण मित्यादि, 'उभयसरिच्छं च सहस्स॥२॥"(वि.१५१५) इति,उभयमिह निर्देश्य निर्देशकंच वस्त्वभिधीयते, 'सदृश मिति समानलिङ्गम् , उभयं च तत्सदर्शच उभयसदृशं तदङ्गीकृत्य शब्दस्य निर्देशप्रवृत्तिरिति वाक्यशेषः, किमुक्तं भवति-निर्देश्यं निर्देशकं च वस्तु परस्परं समानलिङ्गमेवाङ्गीकृत्य शब्दनयो निर्देशमभिमन्यते, नान्यथेति, इयमत्र भावना-उपयुक्तो हि निर्देश्यादभिन्न एवं भवति, तदुपयोगानन्यत्वात् , यथा अग्युपयोगादनन्यो माणवकोऽग्निः, ततो यदा पुमान् पुमांसमभिधत्ते तदा पुंनिर्देश एव, एवं स्त्रियाः स्त्रियं प्रतिपादयन्त्याः स्त्रीनिर्देश एव, नपुंसकस्य नपुंसकमभिदधानस्य नपुंसकनिर्देश | ॥१०॥ एव, यदा तु पुमान् स्त्रियमभिधत्ते तदा स खयुपयोगानन्यत्वात् स्त्रीरूप एवेति निर्देश्यनिर्देशकयोः समानलिङ्गतैव, एवं सर्वत्र संयोज्यम् , असमानलिङ्गनिर्देशस्त्ववस्त्वेव, यथा पुमान नपुंसकं स्त्रियं चाहेति, कुत इति चेत्, उच्यते, इह For Private & Personal Use Only Punjainelibrary.org Jain Education inte
SR No.600043
Book TitleAvashyakasutram Part_1
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy