SearchBrowseAboutContactDonate
Page Preview
Page 316
Loading...
Download File
Download File
Page Text
________________ 44 KARSEENA उच्चारित निर्देशस्याभिधेयानन्यत्वविवक्षायामयं घट इति व्यपदेशःप्रवर्तते, निर्देशकानन्यत्वविवक्षायामयं देवदत्त इति, तथा च देवदत्ते कथञ्चित्पथः परिभ्रष्टे इतस्ततो निभाल्यमाने तच्छब्दं श्रुत्वालोको वदति-अयं देवदत्त इति, अभिधेयानन्यत्वविवंक्षायां पुरुषनिर्देशः, निर्देशकानन्यत्वविवक्षायां स्त्रीनिर्देशः, अथ स्त्रीनपुंसकं निर्दिशति तदाऽत्रापि यथाविवक्षितं निर्देश इति नपुंसकनिर्देशः स्त्रीनिर्देशो वा, एवं पुरुषे नपुंसके च निर्देष्टरि भावनीयम् , आह च चूर्णिकृत्-"इत्थी इत्थिं निहिसइ इथिनि देसो, इत्थी पुरिसं निहिसइ इथिनिद्देसो य पुरिसनिदेसो य, इत्थी नपुंसगं निहिसइ इथिनिदेसोअनपुंसगनिद्देसो अ, एवमेव पुरिसनपुंसगाणंपि संजोगो" इति, एवमिहापि निर्देष्टुः त्रिलिङ्गस्यापि सम्भवादनन्यत्वविवक्षायां त्रिलिङ्गताऽपि सामायिकस्य प्रतिपत्तव्येति, आह-द्विविधमपि नैगमनय इत्येतावत्युक्त निर्देश्यवशानिर्देशकवशाची द्विविधं निर्देशमिच्छतीति कुतोऽवसीयते ?, उच्यते, वक्ष्यति-निहिं संगहो य ववहारों इति, ततोऽर्थादत्रावसीयते निर्देश्यवशानिर्देशकवशाच्च निर्देशस्य द्वैविध्यमिति, "निद्दिदं संगहो य ववहारो' इति निर्दिष्टं वस्त्वङ्गीकृत्य सङ्ग्रहो व्यवहारश्च, पशब्दस्य व्यवहितः सम्बन्धः, निर्देश मिच्छतीति वाक्यशेषः, इयमत्र भावना-इह वचनमर्थप्रकाशकमेवोसापजायते, यथा प्रदीपः, ततो यथा प्रदीपः प्रकाश्यं प्रकाशयन्नेवात्मरूपं प्रतिपद्यमानः प्रकाश्यादात्मलाभं लभते इति । व्यपदिश्यते, तथा वचनमप्यर्थ प्रतिपादयदेवात्मरूपं प्रतिपद्यमानमर्थादात्मलाभ लभते इति व्यवहियते, अर्थश्च सावद्ययोगविरमणरूपो नपुंसकतया प्रसिद्ध इति सामायिकस्य नपुंसकलिङ्गतामेव सङ्ग्रहव्यवहारावभ्युपगच्छतः, उक्तंच-"अत्थावोचिय वयणं लहइ सरुवं जहा पदीवोबतोसंगहववहाराभणंति निहिवसर्गतं ॥१॥"(वि.१५११)र्णिकारोऽप्याह Jain Education International For Private & Personal use only www.jainelibrary.org
SR No.600043
Book TitleAvashyakasutram Part_1
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy