________________
उपोद्यातनियुक्तिः
IAN
॥१४९॥
शाभ्यामयमधिकारः, तथाहि-अध्ययनमिति समासोद्देशः, सामायिकमिति समासनिर्देश इति ॥ इदं च सामायिक निर्देश न. नपंसक, सावद्ययोगविरमणस्य नपुंसकतया रूढत्वात्, अस्य च निर्देष्टा-उच्चारयितेति भावः त्रिविधस्तद्यथा-स्त्री पुमानायविचारः नसकं च, तत्र को नयो नैगमादिः कं निर्देशमिच्छतीति प्रतिपिपादयिषुराह
लगा. १४१ विहंपि नेगमनओ निद्दिट्ट संगहो य ववहारो। निद्देसयमुज्जुसुओ उभयसरिच्छं च सहस्स ॥१४१॥ द्विविधमपि-निर्देश्यवशानिर्देशकवशाच्च द्विप्रकारमपि नैगमनयो निर्देशमिच्छति, नैगमो ह्यनेकगमो लोकसंव्यवहारप्रवणश्च, लोके च निर्देश्यवशानिर्देशकवशाच्च निर्देशप्रवृत्तिरुपलब्धा, तत्र निर्देश्यवशाद्यथा-वासवदत्ता प्रियदर्शना इत्यादि, निर्देशकवशाद्यथा- मनुना प्रोक्को मनुः अक्षपादप्रोक्तोऽक्षपाद इत्यादि, लोकोत्तरेऽपि निर्देश्यवशाद् यथा षड़जीवनिका, तत्र हि षट् जीवनिकाया निर्देश्याः, एवमाचारक्रियाभिधानादाचारः तरङ्गवतीवक्तव्यताभिधानात्तरङ्गवतीत्यादि, निर्देशकवशान्जिनवचनं कापिलीयं नन्दसहितेत्येवमादि, एवं सावद्ययोगविरमणरूपं सामायिक रूढितो नपुंसकमिति निद्देश्यवशान्नैगमो नपुंसकनिर्देशमेवास्य मन्यते, यथा सामायिकं नपुंसकमिति, तथा सामायिकनिर्देष्टुः स्त्रीपुन्नपुंसकलिङ्गत्वात् तत्परिणामानन्यत्वाच्च सामायिकस्यार्थरूपस्य त्रिलिङ्गताऽप्येतन्मतेनाविरुद्धा, यथा सामायिक स्त्री सामायिकं पुरुषः सामायिकं नपुंसकमिति, उक्तं च-"तह निद्दिवसाओ नपुंसकं नेगमस्स सामइयं ।थीपुंनपुंसर्ग वा ॥१४९॥ तं चिय निद्देसगवसातो ॥१॥" (वि.१५०९) अन्यच्च-एष नैगमनय एवमभिधत्ते-यदि स्त्री स्त्रियमभिधत्ते तदा निद्देश्यस्य निर्देशकस्य च स्त्रीत्वानिदेशः स्त्रीलिङ्ग एव, अथ स्त्रीपुरुषं निर्दिशति तदा यथाविवक्षितं निर्देशः, तथाहि-देवदत्तेन घटशब्दे
GEOGEBRAICARAGUAISKAIS
9999
Jain Education inte
For Private & Personal use only
divw.jainelibrary.org