SearchBrowseAboutContactDonate
Page Preview
Page 312
Loading...
Download File
Download File
Page Text
________________ -म D PAK-4. मित्याशङ्काया अनुपपत्तिः, सत्यमेतत् , केवलं जीवगुणत्वे ज्ञानत्वे च सत्यपि किं तज्जीव एव आहोश्विजीवादन्यदिति | यः संशयस्तदपनोदार्थ इहोपन्यास इत्यदोषः। आह-नामद्वारे क्षायोपशमिकं सामायिकमुक्तं, ततस्तदावरणक्षयोप|शमादवाप्यते इति गम्यत एवं, ततः किमर्थ 'कथं लभ्यते' इति द्वारमुपन्यस्तम् !, उच्यते, स एव क्षयोपशमः कथमवा-16 प्यते इति क्षयोपशमगतशेषाङ्गलाभचिन्तनाददोषः, एवं यत् यदुपक्रमनिक्षेपद्वारद्वयाभिहितमपि पुनरभिधत्ते तत्तदनुग-17 मद्वारावसरात् प्रपञ्चव्याख्यार्थमिति परिभावनीयम् । अपरस्त्वाह-ननूपक्रमः प्रायः शास्त्रसमुत्थापनार्थ उक्त उपोद्घातोऽप्येष शास्त्रसमुद्घातप्रयोजन एवेति कोऽनयोर्भेदः ?, उच्यते, उपक्रमो हुद्देशमात्रनियतव्यापार उपोद्घातस्तु प्रायेण| तदुद्दिष्टवस्तुप्रबोधनफलः, अर्थानुगमत्वात् इत्यलं विस्तरेण, प्रकृतं प्रस्तुमः ॥ तत्रोद्देशद्वारावयवार्थप्रतिपादनार्थमाह नाम ठवणा दविए खित्ते काले समासउद्देसे । उद्देसुद्देसम्मि य भावम्मिय होइ अहमओ ॥ १३९ ॥ का यस्य जीवादेरदेश इति नाम क्रियते स नाम्ना उद्देशो नामोद्देशो, यदिवानामनामवतोरभेदोपचारात नाम चासौ उद्देशश्च नामोद्देशः, अथवा नाम्ना उद्दिश्यते-अभिधीयते इति नामोद्देशः, यदिवा नाम्न उद्देशः-अभिधानं नामोद्देशः, तथा उद्देशः स्थाप्यमानः स्थापनोद्देशः, स्थापनाया वा उद्देशा-अभिधानं स्थापनोद्देशः, 'दविए' इति द्रव्यविषय उद्देशः द्रव्योद्देशः, |सच द्विधा-आगमतो नोआगमतश्च, तत्र आगमतो ज्ञाताऽनुपयुक्तः, नोआगमतो ज्ञशरीरभव्यशरीरतव्यतिरिक्तमेदात् त्रिधा, तत्रज्ञदारीरभव्यशरीरं प्रतीते, तद्व्यतिरिक्तस्त्रिविधस्तद्यथा-द्रव्यस्य द्रव्येण द्रव्ये वा उद्देशो द्रव्योद्देशः, तत्र म्यस्योद्देशो यथा द्रब्यमिदमिति, द्रव्येण हुनुभूतेनोद्देशो यथा द्रव्यपतिरयमिति, तथा द्रव्ये उहेशो यथा वचते राजा Jain Education International For Private & Personal use only www.jainelibrary.org
SR No.600043
Book TitleAvashyakasutram Part_1
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy