________________
उपोद्घातनिर्युक्तिः
॥१४५॥
Jain Education Internation
| दुःशीले ! कामविडम्बितमानसा तरुणिमाभिरमणीयं पुरुषान्तरमवलोकसे, न सम्यग्वारकमभिगृह्णासि, ततः सा खरपरुषवाक्यश्रवणतः समुद्भूतकोपा वेशवशोच्छलित कम्प कम्पितपीनपयोधरा स्फुरदधरबिम्बोष्ठी दूरोत्पाटित रेखाधनुरवष्टम्भतो नाराचश्रेणिमिव कृष्णकटाक्षसन्ततिमविरतं प्रतिक्षिपन्ती प्रत्युवाच - हा ग्रामेयकाधम ! घृतघटमप्यवगणय्य विदग्ध| मत्तकामिनीनां मुखारविन्दान्यव लोकसे, न चैतावता अवतिष्ठसे, ततः खरपरुषवाक्यैर्मामप्यधिक्षिपसि ततः स एवं प्रत्युकोऽतीव ज्वलितकोपानलो यत्किमप्यसम्बद्धं भाषितुं लग्नः साऽप्येवं, ततः समभूत्तयोः केशाकेशि, ततो विसंस्थुलपादादिन्यासतः सकलमपि प्रायो गन्त्रीघृतं भूमौ निपतितं तच्च किञ्चिच्छोपमुपगतं अवशेषं चावलीढं श्वभिः, गन्त्रीघृतमपि शेषीभूतमपहृतं पश्यतोहरैः, सार्थिका अपि स्वं स्वं घृतं विक्रीय स्वग्रामगमनं प्रपन्नाः, ततः प्रभूतदिवस भागातिक्रमेणाप| सृते युद्धे स्वास्थ्ये च लब्धे यत्किञ्चित् प्रथमतो विक्रीणयामास घृतं तद्द्रव्यमादाय तयोः स्वग्रामं गच्छतोः अपान्तरालेऽस्तं गते सहस्रभानौ सर्वतः प्रसरमभिगृह्णति तमोविताने परास्कन्दिनः समागत्य वासांसि द्रव्यं बलीवर्दो चापहृतवन्तः, तत एवं तौ महतो दुःखस्य भाजनमजायेतां एष दृष्टान्तोः, अयमर्थोपनयः यो विनेयोऽन्यथा प्ररूपयन्नधीयानो वा खरपरुषवाक्यैराचार्येण शिक्षितोऽधिक्षेपपुरःसरं प्रतिवदति - यथा त्वयैवेत्थमहं शिक्षितः, किमिदानीं निन्हुषे १ इत्यादि, स न केवलमात्मानं संसारे पातयति, किन्त्वाचार्यमपि खरपरुषप्रत्युच्चारणादिना तीव्रतीव्रतरकोपानलज्वालनात् भवन्ति च कुविनेया मृदोरपि गुरोः खरपुरुषप्रत्युच्चारणादिना कोपप्रकोपकाः, उक्तं चोत्तराध्ययनेषु - 'अणासवा थूलवया कुसीला, मिरंपि चंडं पकरिंति सीसा' इति, अपिच - गुरवो गुणगुरवः, ततस्ते यदि कथमपि दुष्टशैक्षशिक्षापनेन कोपमुपागमंस्त
For Private & Personal Use Only
अनुयोगे
दृष्टान्ताः
॥१४५॥
www.jainelibrary.org