SearchBrowseAboutContactDonate
Page Preview
Page 308
Loading...
Download File
Download File
Page Text
________________ Jain Education International धापि तेषां भगवदाज्ञावर्त्तित्वादल्पपापभाजां मिथ्यादुष्कृतादिमात्रेणापि विशुद्धिरुपजायते, शिष्यस्तु भगवदाज्ञाविलो| पतो गुर्वाशातनायाश्चोपचिताशुभगुरुकर्मा दीर्घतरसंसारभागी, किश्श एवं स वर्त्तमानो मतिमानपि श्रुतरलाद्वहिर्भवति, | अन्यत्रापि तस्य दुर्लभ श्रुतत्वात्, को हि नाम सचेतनो दीर्घतरजीविताभिलावी सर्पमुखे स्वहस्तेन पयोबिन्दून् प्रक्षिपतीति, स एकान्तेनायोग्यः । प्रतिपक्षभावनायामपीदमेव कथानकं परिभावनीयम्, केवलमिह घृतघटे भग्ने सति द्वावपि तौ दम्पती त्वरि| तत्वरितं कपरैर्यथाशक्ति घृतं गृहीतवन्तौ स्तोकमेव विननाश, निन्दति चात्मानमाभीरो यथा-हीन मयां घृतघटस्ते सम्यक् समर्पितः, आभीर्यपि वदति - समर्पितस्त्वया सम्यक् न मया सम्यक् गृहीतः, तत एवं तयोर्न कोपावेशदुःखं नापि घृतहानिः नापि सकाल एवान्यसार्थिकैः सह स्वग्राममभिसर्पतामपान्तराले तस्करावस्कन्दः, ततस्तौ सुखभाजनं जातो, एवमि हापि कथञ्चिदनुपयोगादिनाऽन्यथारूपे व्याख्याने कृते सति पश्चादनुस्मृतयथावस्थितव्याख्यानेन सूरिणा शिष्यं पूर्वमुकं व्याख्यानं चिन्तयन्तं प्रति एवं वक्तव्यम्-वत्स ! मैवं व्याख्यः, मया तदानीमनुपयुक्तेन व्याख्यातं, तत एवं व्याख्याहि, तत | एवमुक्ते सति यो विनेयः कुलीनो विनीतात्मा स एवं प्रतिवदति-यथा भगवन्तः किमन्यथा प्ररूपयन्ति १, केवलमहं मतिदौर्बल्यादन्यथाऽवगतवानिति, स एकान्तेन योग्यः ॥ तदेवमाचार्यशिष्यदोषगुणकथन लक्षणो व्याख्यानविधिः प्रतिपादितः, सम्प्रति कृतमङ्गलोपचारो व्यावर्णितप्रसङ्गविस्तरः प्रदर्शितव्याख्यानविधिरुपोद्घातं प्रतिपादयतिउद्देसे १ निद्देसे २ य निग्गमे ३ खेत्त ४ काल ५ पुरिसे ६ य । कारण ७ पचय ८ लक्खण ९ नए १० समोयारणा ११ शुमए १२ ॥ १३७ ॥ For Private & Personal Use Only www.jainelibrary.org
SR No.600043
Book TitleAvashyakasutram Part_1
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy