________________
घोक्ष्यामि, ततोऽवश्यमस्यै दातव्या चारिरिति ददौ चारिम् , एवं शेषा अपि ददुः, ततः सर्वेऽपि चिरकालं दुग्धाम्यवहारभाजिनो जाताः, लोके च समुच्छलितः साधुवादः, लभन्ते च प्रभूतमन्यदपि गवादिक, एवं येऽपि विनेयाश्चिन्तयन्तियदि वयमाचार्यस्य न किमपि विनयादिकं विधातारस्तत एषोऽवसीदन्नवश्यमपगतासुभविष्यति, लोके च कुशिया इमे इत्यवर्णवादः, ततो गच्छान्तरेऽपि न वयमवकार्श लप्स्यामहे, अपिच-अस्माकमेष प्रव्रज्याशिक्षाप्रतारोपणादिकरणतो महोपकारी, सम्प्रति च जगति दुर्लभं श्रुतरत्नमुपयच्छन् वर्सते, ततोऽवश्यमेतस्य विनयादिकमस्माभिः करणीयम् , अन्यञ्च-यद्यस्मदीयविनयादिसाहायकबलेन प्रतीच्छकानामप्याचार्यत उपकारः किमस्माभिर्न लब्धं, द्विगुणतरपुण्यलाभस्यास्माकं भावात् , पातीच्छिका अपि ये चिन्तयन्ति-अनुपकृतोपकारी भगवानाचार्योऽस्माकं, को नामान्यो महान्तमेवं व्याख्याप्रयासमस्मन्निमित्तं विदधाति !, ततः किमेतेषां वयं प्रत्युपकर्तुं शक्काः, तथापि यत्कुर्मः सोऽस्माकं महान् लाभ इति परस्परनिरपेक्षं विनयादिकमादधते. तेषां नावसीदत्याचार्योऽव्यवच्छिन्ना च सूत्राधेप्रवृत्तिः समुच्छलति च ततः सर्वत्र साधुवादः गच्छान्तरे च तेषां सुलभ श्रतज्ञानं परलोके च सुगत्यादिलाभः । भेर्युदाहरणं प्राग्वत् । सम्पत्याभीरीदृष्टान्तभावना, कश्चिदाभीरो निजभार्यया सह विक्रयाय घृतं गच्या गृहीत्वा पत्तनमवतीर्णः, चतुष्पथे च समागत्व वणिगापणेषु पणायितुं प्रवृत्तो, घटितश्च पणायाः सङ्कटः, ततः समारब्धे वृतमापे गळ्या अधस्तादवस्थिता आभीरी घृतं मत्रो वारकेण समयमाणं प्रतीच्छति, ततः कथमप्यपणे ग्रहणे वाऽनुपयोगतोऽपान्तराले एव एको लघुघटरूपो वारको भूमौ निपत्य खण्डशो भन्नः, सतो घृतहानिधनमनाः पतिरुल्लपित खरपरुषवाक्यानि प्रापर्शत-वधा हा पापीयसि ,
भास्.२५
Jain Education tema
PMS
For Private & Personal use only
Mirjainelibrary.org