________________
शिष्यफ
उपोदातनियुकिः ॥१४॥
CORRUARA
रोक्षायां शैलादिदृष्टान्ताः
गौश्चतुर्णामस्माकं, ततः कथं कर्त्तव्या?, तत्रैकेनोक-परिपाट्या दुह्यतामिति, तच्च समीचीनं प्रतिभातमिति सर्वैः प्रतिपन्न, ततो यस्य प्रथमदिवसे गौरागता तेन चिन्तितं-यथाऽहमद्यैव धोक्ष्यामि, कल्ये पुनरन्यो धोक्ष्यति, ततः किं निरर्थकामस्थाश्चारिं वहामि, ततो न किञ्चिदपि तस्यै तेन दत्तं, एवं शेषैरपि, ततः सा श्वपाककुलनिपतितव तृणसलिलादिविरहिता गतासुरभूत्, ततः समुत्थितस्तेषां धिग्जातीयानामवर्णवादो लोके, शेषगोदानादिलाभब्यवच्छेदश्च, एवं शिष्या अपि ये चिन्तयन्ति-न खलु केवलानामस्माकमाचार्यो व्याख्यानयति, किन्तु प्रतीच्छकानामपि, ततस्त एव विनयादिकं करिष्यन्ति, किमस्माकमिति, प्रतीच्छका अप्येवं चिन्तयन्ति-निजशिष्याः सर्व करिष्यन्ति, किमस्माकं कियकालावस्थायिनामिति ?, | ततस्तेषामेवं चिन्तयतामपान्तराल एवाचार्यों विषीदति, लोके च तेषामवर्णवादो जायते, अन्यत्रापि च गच्छान्तरे | दुर्लभौ तेषां सूत्रार्थों, ततस्ते गोप्रतिगाहकचतुर्द्विजातय इवायोग्या द्रष्टव्याः, उक्तं च-"अन्नो दुज्झिहि कलं निरत्ययं से वहामि किं चारि।। चउचरणगवी उ मया अवन्नहाणी उ बडुयाणं ॥१॥(वि.१४७३) सीसा पडिच्छगाणं भरोत्ति तेऽविय हु । सीसगभरोत्ति न करेंति सुत्तहाणी अन्नत्थवि दुलहं तेसिं ॥२॥"(वि.१४७५) एष एव गोदृष्टान्तः प्रतिपक्षेऽपि योजनीयः, यथा कश्चित्कौटुम्बिको धर्मश्रद्धया चतुर्ग्यः चतुर्वेदपारगामिभ्यो गां दत्तवान् , तेऽपिच पूर्ववत्परिपाच्या दोग्धुमारब्धाः, तत्र यस्य प्रथमदिवसे सा गौरागता स चिन्तितवान्-यद्यहमस्याश्वारिं न दास्यामि ततः क्षुधा धातुक्षयादेषा प्राणानपहास्थति, ततो मे लोकेषु गोहत्यावर्णवादो भविष्यति, पुनरपि चास्मभ्यं न कोऽपि गवादिकं दास्यति, अपिच-यदि मदीयचारिचरणेन पुष्टा सती शेरैरपि बाणै|क्ष्यते ततो मे महान् अनुग्रहो भविष्यति, अहमपिच परिपाव्या पुनरप्येनां
॥१४४॥
Jain Education inte
For Private & Personal use only
www.jainelibrary.org