________________
मदासः सन् उदकमध्ये तदुदकं मुहुर्मुहुः शृङ्गाम्यां साडयद्मवगाहमानञ्च सकलमपि कलुषीकरोति, ततो न स्वयं पातुं शक्नोति, नापि यूथं, तद्वच्छिष्योऽपि यो व्याख्यानप्रबन्धावसरेऽकाण्ड एव क्षुद्रपूच्छाभिः कलहविकथादिभिर्वा आ| त्मनः परेषां चानुयोमश्रवणविघातमाघते स महिषसमानः, स चैकान्तेनायोग्यः, उक्तं च- "सयमवि न पियइ महिसो न य जूहं पिबइ लोलियं उदयं । विग्गहविकहाहिं तहा अथकपुच्छाहि य कुसीसो ॥ १ ॥ (वि. १४६८) मेषोदाहरणभावना - यथा मेषो वदनस्य तनुत्वात् स्वयं च निभृतात्मा गोष्पदमात्रस्थितमपि जलमकलुषीकुर्वन् पिबति तथा यः शिष्योऽपि पदमात्रमपि विनयपुरः सरमाचार्यचित्तं प्रसादयन् पृच्छति स मेषसमानः, स चैकान्तेन योग्यः । मसक दृष्टान्तभावना - यः शिष्यो मसक इव जात्यादिकमुद्घट्टयन् गुरोर्मनसि व्यथामुत्पादयति स मसकसमानः, स चायोग्यः । जलौकाट - |ष्टान्तभावना-यथा जलौकाः शरीरमदुन्वती रुधिरमाकर्षति तथा शिष्योऽपि योऽदुन्वन् श्रुतज्ञानमापिवति स बल्लूकासमानः, उतं च "जलुगा व तम ( अ ) दूमिंतो, पियइ सुसीसोऽवि सुयनाणं ।” (वि. १४७० ) विडालीदृष्टान्तभावना —- यथा बिडाली भाजनसंस्थं क्षीरं भूमौ विनिपात्य पिवति, तथा दुष्टस्वभावत्वात्, शिष्योऽपि यो विनयकरणादिभीततया न साक्षाद् गुरुसमीपे गत्वा शृणोति, किन्तु व्याख्यानादुत्थितेभ्यः केभ्यश्चित् स बिडालीसमानः, स चायोग्यः । तथा जाहक:|तिर्यग्विशेषस्तदुदाहरणमावना - वथा जाहकः स्तोकं स्तोकं क्षीरं पीत्वा पार्श्वणि लेढि, तथा शिष्योऽपि पूर्वगृहीतं सूत्रम वा अतिपरिचितं कृत्वा अन्यतृच्छति स जाहकसमानः, स च योग्यः । सम्प्रति गोदृष्टान्तभावना-यथा केनापि कौटुम्बिकेन कस्मिंञ्चित्पर्वणि चतुर्म्यश्चतुर्वेदपारगामिभ्यो विप्रेभ्यो गौर्दता, ततस्ते परस्परं चिन्तयामासुः-वया इयमेका
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org