SearchBrowseAboutContactDonate
Page Preview
Page 302
Loading...
Download File
Download File
Page Text
________________ RECRAA म्याच, तत्र ये नवीना ये जीर्णा अभाविता ये च कुप्रावचनिकादिमाविता अपि वम्या ये च संविघ्नभाविता अवाम्यास्ते सर्वेऽपि । योग्याः, शेषा अयोग्याः। अथवाऽन्यथा कुटदृष्टान्तभावना-इह चत्वारः कुटास्तद्यथा-छिद्रकुटः खण्डकुटः कण्ठहीनकुटः सम्पूर्णकुटश्च, तत्र यस्य अधो बुने छिद्रं स छिद्रकुटः, यस्य पुनरोष्ठपरिमण्डलाभावः स कण्ठहीनकुटा, यख पुनरेकपार्थे खण्डेन हीनता स खण्डकुटः, यः पुनः सर्वाषयवसंपूर्णः स संपूर्णकुटा, एवं शिष्या अपि चत्वारो वेदितव्याः, तत्र यो। व्याख्यानमण्डल्यामुपविष्टः सर्वमर्थमवबुध्यते व्याख्यानादुत्थितश्च न किमपि सरति स छिद्रकुटसमानो, यथा हि छिद्र। कुटो यावत्तदवस्थ एव गाढमवनितलसंलग्नोऽवतिष्ठते तावन्न किमपि जलं ततः श्रवति, स्तोकं वा किञ्चिदिति, एवमेषोऽपि यावदाचार्यः पूर्वापरानुसन्धानेन सूत्रार्थमुपदिशति तावदवबुध्यते, उत्थितश्चेव्याख्यानमण्डल्या तर्हि स्वयं पूर्वापरानुसन्धानविकलत्वान्न किमपि अनुस्मरति, यस्तु व्याख्यानमण्डल्यामप्युपविष्टोऽर्द्धमानं त्रिभागं चतुष्कं वा हीनं वा सूत्रार्थमवधारयति तथाऽवधारितं च स्मरति स खण्डकुटसमानः, यस्तु किञ्चिदनं सूत्रार्थमवधारयति पश्चादपि च तथैव स्मृतिपथमवतारयति स कण्ठहीनकुटसमानः, यस्तु आचार्योकं सकलमपि सूत्रार्थ यथावदवधारयति पश्चादपि च तथैव संपूर्ण स्मरति स सम्पूर्णकुटसमानः,अत्र छिद्रकुटसमान एकान्तेनायोग्यः,शेषायथोत्तरं प्रधानाःप्रधानतराःप्रधानतमाः।सम्पति चालनीदृष्टान्तभा-1 वना, चालनी लोकप्रसिद्धा यया कणिकादि चाल्यते,तत्र यथा चालन्यामुदकं प्रक्षिप्यमाणं तत्क्षणादेव गच्छति, न पुनः किय-12 न्तमपि कालमवतिष्ठते, तथा यस्य सूत्रार्थःप्रदीयमानो यदैव कर्णे प्रविशति तदैव विस्मृतिपथमुपैति स चालणीसमानः, तथा हाच मुद्नशैलच्छिद्रकुटचालणीसमानशियमेदप्रदर्शनार्थमुक्तंभाष्यकता-"सेलेयछिडचालिणि मिहोकहा सोउ उहियाणं तु। AAAAAACANSACANCAT. Jain Education Inten For Private & Personal use only ww.jainelibrary.org %
SR No.600043
Book TitleAvashyakasutram Part_1
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy