SearchBrowseAboutContactDonate
Page Preview
Page 301
Loading...
Download File
Download File
Page Text
________________ उपोद्घातनिर्युक्तिः १४२॥ Jain Education Internat यामू, इदं वाऽध्ययनं न समीचीनम् कथमयमन्यथा नावबुध्यते इति, अपि च- तथाविधकुशिष्यपाठने तत्यावत्रोधाभावात् उत्तरोत्तरसूत्रार्थानवगाहने सूरेः सकलावपि शास्त्रान्तर्गतौ सूत्रार्थी भ्रंशमाविशतः, अन्येषामपि च पटुश्रोणामुत्तरोत्तरसूत्रार्थावगाहन हानिप्रसङ्गः, उक्तं च- "आयरिए सुत्तंमि य परिवाओ सुत्तअत्धपलिमंथो । अन्नेसिंपि य हाणी पुट्ठावि न दुद्धया झा ॥१॥” (वि. १४५७ ) मुद्रशैलप्रतिपक्षाद् ततो योग्यशिष्यविषयो दृष्टान्तः कृष्णभूमिप्रदेशः, तत्र हि प्रभूतमपि निपतितं जलं तत्रैवान्तः परिणमति, न पुनः किञ्चिदपि ततो बहिरपगच्छति, एवं यो विनेयः सकलसूत्रार्थ ग्रहणधारणे समर्थः स कृष्णभूमिप्रदेशतुल्यः, स च योग्यः, ततस्तस्मै दातव्यमिदमध्ययनमिति, उक्तं च- " वुट्ठेऽवि दोणमेहे न कण्हभोमाओ | लोट्टए उदयं । गहणधरणासमत्थे, इय देयमछित्तिकारंमि ॥ १ ॥” (वि. १४५८ ) सम्प्रति कुटदृष्टान्तभावना - कुटा-घटाः, ते द्विविधास्तद्यथा - नवीना जीर्णाश्च, नवीना ये सम्प्रत्येवापाकतः समानीताः, जीर्णा द्विविधा - भाविता अभाविताश्च, भाविता द्विविधाः - प्रशस्तद्रव्यभाविता अप्रशस्तद्रव्यभाविताश्च तत्र ये कर्पूरागुरुचन्दनादिभिः प्रशस्तद्रव्यैर्भावितास्ते प्रशस्तद्रव्य भाविताः, ये पुनः पलाण्डुलशुनसुरातैलादिभिर्भावितास्तेऽप्रशस्तद्रव्यभाविताः, प्रशस्ता प्रशस्तद्रव्यभाविता अपि द्विधा-वाम्या अवाम्याश्च, अभाविता नाम ये केनापि द्रव्येण न वासिताः, एवं शिष्या अपि प्रथमतो द्विधा - नवीना जीर्णाश्च, तत्र ये बालभावे वर्त्तमाना अज्ञानिनः सम्प्रत्येवावबोधयितुमारब्धास्ते नवीनाः, जीर्णा द्विविधा - भाविता अभाविताश्च, तन्त्राभाविता ये केनापि दर्शनेन न वासिताः, भाविता द्विविधाः - कुप्रावचनिकपार्श्वस्थादिभिः संविग्नैश्च, कुप्रावचनिकपार्श्वस्थादिमिरपि भाविता द्विविधाः - वाम्या अवाम्याश्च, संविग्नैरपि भाविता द्विधा - वाम्या अवा For Private & Personal Use Only शिष्यरीक्षायां शैलादि दृष्टान्ताः ॥१४२॥ ww.jainelibrary.org
SR No.600043
Book TitleAvashyakasutram Part_1
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy