________________
उपोद्घातनिर्युक्तिः
॥ १३८ ॥
Jain Education Intern
यथा समभावः सामायिकमिति, विभाषकस्तु तस्यैवानेकधा अर्थमभिधत्ते, यथा समभावः सामायिकं, समानां वा ज्ञानदर्शनचारित्राणां वाऽऽयः समायः समाय एव सामायिकं, स्वार्थे इकण्प्रत्यय इत्यादि, तथा व्यक्तिकरणशीलो व्यक्तिकरः, यः खलु निरवशेषव्युत्पत्ति अतिचारानतिचारफलादिभेदभिन्नमर्थे भाषते स व्यक्तिकर इति भावः, स च निश्चयतः चतुर्दशपूर्वधर एव, इह भाषकादिस्वरूपान्वाख्यानात् भाषादय एव प्रतिपादिता द्रष्टव्याः, भाषादीनां तत्प्रभवत्वात् उक्तं च- 'पढमो रुवागारं थूलावयवोवदंसणं वीओ । तइतो सबावयवो निद्दोसो सबहा कुणइ ॥ १ ॥ कट्ठसमाणं सुत्तं तदत्थरूवेगभासणं भासा । थूलट्ठाण विभासा सबेसिं वत्तियं नेयं ॥ २ ॥ (वि. १४२६-७) सम्प्रति पुस्तविषयो दृष्टान्तः, यथा पुस्ते कश्चिदाकारमात्रं करोति, कश्चित्परिस्थूलावयवनिष्पत्तिं, कश्चित्त्वशेषावयवनिष्पत्तिमिति, दान्तिकयोजना प्राग्वत् । इदानीं चित्रविषयो दृष्टान्तः, यथा चित्रकर्म्मणि कश्चिद्वर्त्तिकाभिराकारमात्रं करोति, कश्चित् हरिताला - दिवर्णोद्भेदं कश्चित्त्वशेषपर्यायैर्निष्पादयति, दान्तिकयोजना पूर्ववत् । श्रीगृहिकोदाहरणम् - श्रीगृहं - भाण्डागारं तदस्यास्तीति 'अतोऽनेकस्वरा' दिति इकप्रत्ययः, तद्दृष्टान्तभावना इयम् - कश्चिद्रलानां भाजनमेव वेत्ति, इह भाजने रत्नानि सन्तीति, कश्चिज्जातिमानादि, कश्चित्पुनर्गुणानपि एवं प्रथमद्वितीयतृतीयकल्पा भाषकादयो द्रष्टव्याः । तथा 'बोण्ड मिति पद्मं तद्यथा ईषद्भिन्नमर्द्धभिन्नं विकसितरूपमिति त्रिधा भवति, एवं भाषाद्यपि क्रमेण योजनीयम् । इदानीं देशिक|विषयमुदाहरणं, देशनं देश : - कथनमित्यर्थः सोऽस्यास्तीति देशिकः, यथा कश्चिद्देशिकः पन्थानं पृष्टः सन् दिग्मात्रमेव कथयति, कश्चिचद्व्यवस्थितग्रामनगरादिभेदेन, कश्चित्पुनस्तदुत्थगुणदोषभेदेन कथयति, एवं भाषादयोऽपि क्रमेण
For Private & Personal Use Only
भाषकादिस्वरूपम्
॥ १३८ ॥
www.jainelibrary.org