SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ S पोदातेहचानुयोगद्वारे-"नाम आवकहियं ठवणा इत्तरिया वा होजा आवकहिआवा"भाष्यकारोऽप्याह-"जं पुण तयत्थसुन्नं तय- तास्थापनाद भिप्पारण तारिसागारं। कीरइ व निरागारं इत्तरमियरं व साठवणा॥"(भा. २५)। सम्प्रति द्रव्यमङ्गलभिधातव्यं, तत्र व्यलक्षणं द्रव्यमिति-द्रवति गच्छति तांस्तान् पर्यायानिति द्रव्यं, 'कृद्धहुल'मिति वचनात् कर्तरि यः, द्रव्यं च तन्मङ्गलं च द्रव्यमगलं, तल्लक्षणमिदम्-"भूतस्य भाविनो वा भावस्य हि कारणं तु यल्लोके । तद् द्रव्यं तत्त्वज्ञैः सचेतनाचेतनं कथितम् ॥१॥" अस्यायमर्थः-भूतस्य-अतीतस्य भाविनो वा-एष्यतः भावस्य-पर्यायस्य कारणं-निमित्तं यदस्मिन् लोके तत् तत्त्वज्ञैःसर्वज्ञैः तीर्थकृद्भिरितियावत् द्रव्यं कथितं, द्रवति-गच्छति तांस्तान् पर्यायान् अग्रेतनान् प्राचीनांश्च मुञ्चतीति द्रव्यमिति व्युत्पत्त्यर्थानुगमात् , तच्च द्विधा-सचेतनमचेतनं च, तत्र सचेतनं अनुपयुक्तपुरुषाख्यं, अचेतनं ज्ञशरीरादीति, उक्तं द्रव्यलक्षणम् , अधुना प्रकृतमुपयुज्यते, द्रव्यमङ्गलं द्विधा-आगमतो नोआगमतश्च, तत्र आ-समन्तात् गम्यते वस्तुतत्त्वमनेनेत्यागमः-श्रुतज्ञानं आगममधिकृत्यागमतः, 'स्थानियपः कर्माधारे' इति कर्मणि पञ्चमी, यथा प्रासादमारुह्य । प्रेक्षते इत्यर्थे प्रासादात् प्रेक्षते इत्यत्र, आगमापेक्षयेति भावार्थः, आगमस्याभावः आगमस्य एकदेशो वा आगमेन सह मिश्रणं वा नोआगमः, नोशब्दस्य त्रिष्वप्यर्थेषु वर्तमानत्वात् , नोआगममधिकृत्य नोआगमतः, तत्र आगमतो मङ्गलशब्दार्थज्ञाता तत्र चानुपयुक्तः, स हि मङ्गलशब्दार्थवासितान्तःकरणतया तज्ज्ञानलब्धिसहितो नोपयुक्त इति ॥६॥ 'अनुपयोगो द्रव्य'मिति वचनात् द्रव्यम् , आह च भाष्यकृत्-"आगमओऽणुवउत्तो मंगलसद्दाणुवासिओ वत्ता । तन्नाणलद्धिसहिओऽवि नोवउत्तोत्ति तो दवं॥१॥"(भा. २९) नवागमो मङ्गलशब्दार्थपरिज्ञानमागमः श्रुतज्ञानमिति पूर्वमभि-13 ACCOCALCOME A Jain Education Inter For Private & Personal use only Diww.jainelibrary.org
SR No.600043
Book TitleAvashyakasutram Part_1
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy