________________
| देवदत्तादिनामवाच्यानां विद्यमानानामपि अपरापरनामपरावर्त्तस्य लोके दर्शनात् यदपि च सिद्धान्तेऽभिहितं ' नाम आवकहियं 'ति तत् प्रतिनियतां जनपदादिसंज्ञामधिकृत्य, यथोत्तराः कुरव इत्यादि, नाम च तन्मङ्गलं च नाममङ्गलं, यदा तु वस्तु वाच्यं विवक्ष्यते तदैवं व्युत्पत्तिः नाम्ना मङ्गलं नाममङ्गलं, यद्वा नामनामवतोरभेदोपचारात् नाम च तत् मङ्गलं च नाममङ्गलं, तच्च नामरूपं मङ्गलं त्रिधा, तद्यथा - जीवविषयमजीवविषयमुभयविषयं च तत्र जीवविषयं यथा सिन्धुविषये अग्नेर्मङ्गलमिति नाम, अजीवविषयं यथा लाटदेशे दवरकवलनकस्य मङ्गलमिति नाम, उभयविषयं यथा वंदनमालाया मङ्गलमिति नाम, अत्र हि दवरकादीन्यचेतनानि पत्रादीनि तु सचेतनानीति जीवाजीवरूपता वन्दनमालायाः । तथा सद्भावमाश्रित्य लेप्यकर्मादिष्वसद्भावं चाश्रित्याक्षवराटादिषु या स्वस्तिकादीनां स्थापना सा स्थापनामङ्गलं स्थापना चासौ मङ्गलं च तत् स्थापनामङ्गलमिति व्युत्पत्तेः स्थापनालक्षणं चेदं - 'यत्तु तदर्थवियुक्तं तदभिप्रयेण यच्च तत्कगणि । लेप्यादि कर्म्म तत्स्थापनेति क्रियतेऽल्पकालं च ॥ १ ॥" अस्यायमर्थः- तत्स्थापनेत्यभिधीयते, यत्किमित्याह- 'यत्तु' यत्पुनः, तुशब्दो नामलक्षणात् स्थापनालक्षणस्य भेदमाह, 'तुः स्याद्भेदेऽवधारणे' इति वचनात्, ' तदर्थवियुक्त' मिति स चासावर्थश्च तदर्थ:- सद्भूतेन्द्रलक्षणः तेन वियुक्तं-शून्यं तदर्थवियुक्तं, अथ च 'तदभिप्रायेणेति तस्य - सद्भूतेन्द्रस्याभिप्रायो - बुद्धिरध्यवसायस्तदभिप्रायस्तेन तदुद्धयेत्यर्थः कृतमित्यादि गम्यते, कथंभूतमित्याह-यश्च 'तत्करणि' तस्यैव - सद्भूतेन्द्रस्यैव करणि:-आकृतिराकारो यस्य तत् तत्करणि- सद्भूतेन्द्रसमानाकारं लेप्यादिकर्मेति भावार्थ:, चशब्दासदाकृतिशून्यं वाऽवनिक्षेपादि तत्स्थापना, तचाल्पकाल-इत्वरं, पशब्दाद्यावद्रव्यभावि च, उ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org