SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ पोद्धाते नामनि क्षेप ++MAR मां गालयति-अपनयति संसारादिति मङ्गलं, यदिवा मलं-पापं गालयति-रफेटयतीति मङ्गलं, मा भूत् गलो-विघ्नोऽस्मादिति का मङ्गलं, सर्वत्र पृपोदरादित्वादिष्टरूपनिष्पत्तिः। तच्च नामादिभेदाच्चतुर्द्धा, तद्यथा-नाममङ्गलं स्थापनामङ्गलं द्रव्यमङ्गलं भावमङ्गलंच, तत्र यस्य कस्यचिज्जीवस्य अजीवस्य वा मङ्गलशब्दार्थरहितस्य मङ्गलमिति नाम क्रियते तन्नाममङ्गलं, यत एवं तल्लक्षणम्-"यद्वस्तुनोऽभिधानं स्थितमन्यार्थे तदर्थनिरपेक्षम् । पर्यायानभिधेयं च नाम यादृच्छिक च तथा ॥१॥" अस्यायमर्थ:-'यद्वस्तुनो' जीवाजीवादेर्नाम, यथा गोपालदारकस्येन्द्र इति, "स्थितमन्यार्थ' इति तस्माद्गोपालदारकादन्यश्चासावर्थश्च अन्यार्थः तस्मिन् स्थितं, परमार्थतस्त्रिदशाधिपे अवस्थानात्, 'तदर्थनिरपेक्ष' मिति तस्यइन्द्रादिनानोऽर्थस्तदर्थः-परमैश्वर्यादिरूपस्तस्य निरपेक्षं तदर्थनिरपेक्षं, तथाहि-इन्द्र इति किमुक्तं भवति?-'इदु परमैश्वर्य' इन्दनादिन्द्रः परमैश्वर्ययुक्त इत्यर्थः,एवंभूतेन चार्थेन युक्तमिदं नाम परमार्थतखिदशाधिपे एव वर्तते,तस्य तात्त्विकपरमैश्वर्ययुक्तत्वात् , गोपालके तु तदर्थशून्यमिति, तथा पर्यायानभिधेय' मिति, इह नाम नामवतोरभेदोपचारात् इन्द्र इति गोपालदारकवस्त्वेव गृह्यते तत्पर्यायैः-शक्रपुरन्दरपाकशासनशतमखप्रभृतिभिरनभिधेयं पर्यायानभिधेयं, न हि गोपालदारकवस्त्विन्द्रशब्दवाच्यमपि तात्त्विकेन्द्रवत् शक्रपुरन्दरादिशब्दैरभिधेयमिति,प्रतीतमेतत्, एवंभूतं नाम, प्रकारान्तरेण नाम्नः स्वरूपमाह-'यादृच्छिकं च तथेति, यहच्छया निर्वृत्तं यादृच्छिकं, किमुक्कं भवति-न केवलमनन्तरोक्तलक्षणं नाम, किन्तु अन्यत्रावर्त्तमानमपि यद् एवमेव यदृच्छया गोपालदारकादर्नाम क्रियते यथा डित्थो डवित्थ इति तदपि नाम, इदं ४ चोभयरूपमपि प्रायेण यावद्व्यभावि, मेरुद्वीपसमुद्रादिकं हि नाम प्रभूतं यावद्रव्यभावि दृश्यते, किश्चित्त्वन्यथाऽपि, 4%25A5%258 Jain Education International For Private & Personal use only www.jainelibrary.org
SR No.600043
Book TitleAvashyakasutram Part_1
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy