SearchBrowseAboutContactDonate
Page Preview
Page 282
Loading...
Download File
Download File
Page Text
________________ SOURCESककला कालानुयोगोभावानुयोगश्च यथाविवक्षं सम्भवति, अथालोकरूपस्य क्षेत्रस्यानुयोगविवक्षा तर्हि न तत्रान्यानि द्रव्याणि सन्ति, येऽप्यगुरुलघुपर्यायास्तेऽपि प्रतीता एव, अमूर्तत्वादलोकाकाशस्य, कालश्च तत्र सन्नपि वर्तनादिरूपोन विवक्ष्यते, व्यवहाराभावात् , तदभावश्चानाद्यनिधनतया प्रतीतत्वात्, ततोऽलोकरूपक्षेत्रानुयोगे न द्रव्यानुयोगस्य न कालानुयोगस्य नापि भावा-1 नुयोगस्य सम्भव इति क्षेत्रानुयोगे द्रव्यकालभावानुयोगानां भजना, कालानुयोगः पुनद्रव्यक्षेत्रभावानुयोगेषु भजनया, कालो हि नाम द्विधा भवति-वर्तनादिरूपः समयावलिकादिरूपश्च, तत्र यदि वर्तनादिलक्षणो विवक्ष्यते ततः समस्तद्रव्यक्षेत्रभा-18 वव्यापीति द्रव्यानुयोगे क्षेत्रानुयोगे भावानुयोगे च कालानुयोगस्य सम्भवः, अथ समयावलिकादिरूपस्य विवक्षा तर्हि (स)| समयक्षेत्र एव नान्यत्रेति समयक्षेत्रगतद्रव्यक्षेत्रभावानुयोगेषु तदनुयोगस्य सम्भवो, न तद्वहिव्यक्षेत्रभावानुयोगेष्विति, उकंच-"दवे नियमा भावो न विणा ते यावि खेत्तकालेहिं । खेत्ते तिण्हवि भयणा कालो भयणाऍ तीसुपि ॥१॥" (वि. १४०८) उक्कोऽनुयोगः, एतद्विपरीतोऽननुयोगः, साम्प्रतमनुयोगाननुयोगप्रतिपादकदृष्टान्तप्रतिपादनार्थमाह वच्छगगोणी खुजा सज्झाए चेव बहिरउल्लावो । गामेल्लए य वयणे सत्तेव य होंति भावम्मि ॥१३०॥ | इह यथा नामादिभेदात् सप्तविधोऽनुयोगो वर्णितस्तथाऽननुयोगोऽपि यथासम्भवं वर्णयितव्यः, तत्र नामस्थापने सुगमे, है द्रव्याननुयोगे तत्प्रसङ्गतो द्रव्यानुयोगे वत्सगावाबुदाहरणं, क्षेत्राननुयोगानुयोगयोः कुब्जा उदाहरणं, कालाननुयोगानु योगयोः स्वाध्यायः, वचनाननुयोगानुयोगयोरुदाहरणद्वयं, तद्यथा-वधिरोल्लापो ग्रामेयकश्च, भावे तु उदाहरणानि सप्त वक्ष्यमाणानि । तत्र वत्सगोदृष्टान्तभावमा इयम्-"जइ गोदोहतो जो पाडलाए वच्छगो तं बहुलाए मुयइ बाहुलेयं वा । मा.स.२३ Jain Education Inter For Private & Personal use only T w .jainelibrary.org K
SR No.600043
Book TitleAvashyakasutram Part_1
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy