________________
C
A
| मेकवचनं द्विवचन बहुवचनं वा, वचनानामनुयोगो यथा इत्थंभूतान्येकवचन द्विवचनबहुवचनानि, यदिवा पोडशानां वचनानामनुयोगः, तानि च षोडश वचनान्यमूनि-"लिंगतियं वयणतियं कालतियं तह परोक्ख पञ्चक्खं । उवणयऽवणयचउकं अज्बात्यं होइ सोलसमं ॥१॥ अस्या अक्षरगमनिका-लिङ्गत्रिकं इयं स्त्री अयं पुरुषः इदं नपुंसकमिति, वचनत्रिकं एकवचन द्विवचन बहुवचनमिति, कालत्रिकमकरोत् करोति करिष्यतीति, परोक्षवचनं यथास इति, प्रत्यक्षवचनं यथा अयमिति, उपनयः-स्तुतिरपनयो-निन्दा तयोर्वचनचतुष्क, यथा-रूपवती स्त्रीत्युपनयवचनं, कुरूपा स्त्रीत्यपनयवचनं, रूपवती स्त्री किन्तु कुशीलेत्युपनयापनयवचनं, कुरूपा स्त्री किन्तु सुशीलेत्यपनयोपनयवचनमिति, तथा अन्यञ्चेतसि निधाय विप्रतारकबुद्ध्या अन्यद्विभणिषुरपि सहसा यच्चेतसि तदेव पति यत् तत्षोडशमध्यात्मवचनं, वचनेनानुयोगो यथा कश्चिदाचार्यः साध्वादिभिरभ्यर्थित एकेनापि वचनेनानुयोगं करोति, वचनैरनुयोगो यथा स एव बहुभिर्वचनैरभ्यर्थितस्तं करोति, क्षायोपशमिकेतु वचने स्थितस्यानुयोगो वचनेऽनुयोगः, वचनेष्वनुयोगो व्यक्तिविवक्षया बहुषु क्षायोपशमिकेषु वचनेषु स्थितस्य, अन्ये तु प्रतिपादयन्ति-वचनेषु नास्त्यनुयोगः, वचनस्य क्षायोपशनिकत्वेनैकतया बहुत्वासम्भवात् , भावानुयोगो द्विधा-आगमतो नोआगमतश्च, तत्रागमतो ज्ञाता उपयुक्तः, नोआगमतो भावस्यानुयोगोऽन्यतमस्यौदयिकादेाख्यानं, भावानामनुयोगो नाम बहूनामौदयिकादीनां भावानां व्याख्यानं, मावेनानुयोगः सङ्ग्रहादीनां पञ्चानामध्यवसायानामन्यतरेणाध्यवसायेन योऽनुयोगः, सङ्ग्रहादयः पश्चामी-'पञ्चहिं ठाणेहिं सुयं वाएज्जा, तंजहा-संगहट्टयाए १ उवग्गहड्डयाए २ निजरढयाए ३ सुअपज्जवजाएणं ४ अघोछित्तीए ५'
%A6ANGAROO
C4
Jain Education International
For Private & Personal use only
www.jainelibrary.org