SearchBrowseAboutContactDonate
Page Preview
Page 277
Loading...
Download File
Download File
Page Text
________________ उपोद्घातनिर्युक्तिः ॥१३०॥ Jain Education Interna | प्रवचनादीनामे कार्थिकाभिधानप्रक्रमस्तथाप्यनुयोगस्यानुयोगादीनामेकार्धिकानां मेदोपन्यासेनान्वाख्यानमर्थगरीयस्त्वख्यापनार्थम्, उक्तं च- " सुत्तहरा अत्थहरो अत्थहरा होइ तदुभयधरो उ ।” इत्यादि, तत्रानुयोगाख्यप्रथमद्वारस्वरूपं व्याचिख्यासुराह नामं ठवणा दविए, खित्ते काले वयण-भावे य । एसो अणुओगस्सा, निक्खेवो होइ सत्तविहो ॥ १२९ ॥ नामानुयोगो यस्य जीवादेरनुयोग इति नाम क्रियते, नाम्नो वा अनुयोगो नामानुयोगो-नामव्याख्या, यदिवा नानाअनुरूपो योगो नामानुयोगः, उक्तं च- "नामस्स जोडणुयोगो, अहवा जस्साभिहाणमणुयोगो । नामेण व जो जोग्गो जोगो नामाणुजोगो सो ॥ १ ॥” (वि. १३८९ ) स्थापना - अक्षनिक्षेपादिरूपा, तत्र योऽनुयोगं कुर्वन् स्थाप्यते सोऽनुयोगानुयोगवतोरमेदोपचारात् स्थापनानुयोगः, स्थापना चासावनुयोगश्च स्थापनानुयोगः, यदिवा स्थापनाया अनुयोगो - व्याख्या स्थापनानुयोगः अथवा यः स्थापनाया अनुकूलो योगः-सम्बन्धः, किमुक्तं भवति ? -यस्य स्थापना स्थाप्यमाना देशकालाद्य|पेक्षया युक्ता प्रतिभासते इति स स्थापनानुयोगः, उक्तं च- "ठवणाए जोऽणुयोगोऽणुयोग इति वा ठवेज्जए जं तु । जा वेह जस्स ठवणा जोग्गा ठवणाणुजोगो सो ॥ १ ॥” द्रव्यानुयोगो द्विधा-आगमतो नोआगमतश्च तत्र आगमतोऽनुयोगपदार्थज्ञाता तत्र चानुपयुक्तः, 'अनुपयोगो द्रव्य मिति वचनात्, नोआगमतस्त्रिधा तद्यथा-ज्ञशरीरद्रव्यानुयोगो भव्यशरीरद्रव्यानुयोगस्तद्व्यतिरिक्तश्च तत्र ज्ञशरीर भव्यशरीरे प्रसिद्धे, तद्व्यतिरिक्तस्त्वनेकधा - द्रव्यस्य द्रव्याणां द्रव्येण द्रव्यैर्द्रव्ये द्रव्येषु वा अनुयोगो द्रव्यानुयोगः, एवं क्षेत्रादिष्वपि षद्भेदयोजना कार्या, तत्र द्रव्यस्यानुयोगो For Private & Personal Use Only अनुयोगे पर्यायाः निक्षेपाश्च १२८-९ ॥१३०॥ www.jainelibrary.org
SR No.600043
Book TitleAvashyakasutram Part_1
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy