SearchBrowseAboutContactDonate
Page Preview
Page 276
Loading...
Download File
Download File
Page Text
________________ + A4%ANASI मार्गः मार्गणं वा मार्गः, शिवस्यान्वेषणमिति भावः, उहंच-"मजिजा सोहिंजइ, जेणचा पवयणं तओमग्गो।अहवा सिवस्स मग्गो,मग्गणमन्नेसणं पंथो॥२॥"(वि.१३८१)इति, तथा प्रगतमभिविधिनाजीवादिषु पदार्थेषु वचनं प्रावचन,प्रवचनमुक्तशब्दार्थम्, उक्कानि पञ्च प्रवचनकार्थिकानि, सम्प्रति पञ्च सूत्रैकाथिकान्याह-सुत्त'मित्यादि,सूचनात् सूत्रं, तन्यतेऽनेन अस्मादस्मिन्निति वा तन्त्रं प्रध्यतेऽनेन अस्मादस्मिन्निति वा अर्थ इति ग्रन्थः, प्रथ्यते इति वा ग्रन्थः, पठनं पाठः पठ्यते. वा तदिति पाठा, पठ्यते-व्यक्त क्रियतेऽनेन अस्मादस्मिन्नभिषेयमिति वा पाठः, तथा शिष्यतेऽनेनास्मादस्मिन्निति वा ज्ञेयमात्मा वा इति शास्त्रम् , एकाथिकानीति पुनरभिधानं सामान्यविशेषयोः कथश्चि दख्यापनार्थमिति । अथ अर्थंकार्थिकानि वक्तव्यानि, तत्र अर्थों व्याख्यानमनुयोग इत्यनान्तरम् , अतोऽनुयोगैकार्थिकानि विभणिषुराहअणुओगो य निओगो, भास विभासा य वत्तियं चेव । एए अणुओगस्स उ, नामा एगट्ठिया पंच ॥ १२८॥ सूत्रस्यार्थेन सहानुकूलं योजनमनुयोगः अथवाऽभिधेये व्यापारः सूत्रस्य योगः अनुकूलोऽनुरूपो वा योगोऽनुयोगः, यथा घटशब्देन घटस्य प्रतिपादन मिति, उक्तं च-"अनुयोजणमणुजोगो सुयस्स नियएण जमभिघेएणं । वावारो वा जोगो, जो अणुरूवोऽणुकूलो वा ॥२॥” (वि. १३८६) तथा नियतो निश्चितोवा योगः-सम्बन्धी नियोगः, यथा घटशब्देन घटस्यैव प्रतिपादनं न पटादेरिति, तथा भाषणं भाषा व्यक्तीकरणमित्यर्थः, यथा घटनात् घटः, चेष्टावानर्थो घट इति, G तथा विविधा भाषा विभाषा-पर्यायशब्दैः स्वरूपकथनं यथा घटः कुटः कुम्भ इति, वार्तिकं त्वशेषपर्यायकथनमिति, एतान्यनुयोगस्य नामान्येकार्थिकानि पञ्च, एष गाथासमुदायार्थोऽवयवार्थ तु प्रतिद्वारं वक्ष्यति, तत्र यद्यपि Jain Education Interational For Private & Personal Use Only www.jainelibrary.org
SR No.600043
Book TitleAvashyakasutram Part_1
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy