SearchBrowseAboutContactDonate
Page Preview
Page 275
Loading...
Download File
Download File
Page Text
________________ उपोद्घातनिर्युक्तिः ॥१२९॥ Jain Education Inte विकसितैकार्थिकानि, तथा प्रवचनसूत्रार्थानामपि पद्ममुकुलविकसितकल्पानामेकार्थिकविभागो न विरुद्ध इति, अथवा अन्यथा व्याख्यायते - एकार्थिकानि त्रीण्येवाश्रित्य वक्तव्यानि तद्यथा- प्रवचनमे कार्थिक गोचरस्तथा सूत्रमर्थश्च शेषं पूर्ववत्, आह-यद्येवं द्वारगाथायां यदुक्तं प्रवचनै कार्थिकानि इति तद् व्याहन्यते, सूत्रार्थयोरप्ये कार्थिकाभिधानात्, नैष दोषः, प्रवचनस्य सामान्यविशेषरूपतया सूत्रार्थयोरपि प्रवचनविशेषरूपत्वेन प्रवचनत्वोपपत्तेः, आह - यद्येवं तर्हि | विभागश्चेति पृथगुद्वाराभिधानमनर्थकं तदसम्यक्, विभागश्चेति किमुक्तं भवति ? - नाविशेषेण सामान्यविशेषरूपस्य प्रवचनस्य पञ्चदशैकार्थिकानीति, किं तर्हि ? - विभागश्च वक्तव्यः, विशेषगोचराभिधानपर्यायाणां सामान्यगोचराभिधानपर्यायत्वानुपपत्तेः, नहि चूतसहकारादयो वृक्षादिशब्दपर्याया भवन्ति, लोके तथा व्यवहाराभावादिति ॥ तत्र प्रवचनसूत्रयस्तावत् पश्च पञ्च एकार्थिकान्याह - सुयधम्म तित्थ मग्गो पावयणं पत्रयणं च एगट्ठा। सुतं तंतं गंथो पाढो सत्थं च एगट्ठा ॥ १२७ ॥ श्रुतस्य धर्मः - स्वभावः श्रुतधर्मः श्रुतस्य बोधस्वभावात् श्रुतस्य धर्मो बोधो बोद्धव्यः, अथवा श्रुतं च तत् धर्मश्च सुगतिधारणात् श्रुतधर्म्मः, यदिवा जीवपर्यायत्वात् श्रुतस्य श्रुतं च तत् धर्मः श्रुतधर्म्मः उक्तं च - " बोहो सुयस्स धम्मो, सुर्य व धम्मो सजीवपज्जातो । सुगईए संजमंमि य धरणातो वा सुयं धम्मो ॥ १ ॥” (वि. १३७९) तथा तीर्यते संसारसमुद्रोऽनेनेति तीर्थ, तच्च सङ्घ इत्युक्तम्, इह तु तदुपयोगानन्यत्वात् प्रवचनं तीर्थमुच्यते, आहच - "तित्थंति पुबभणियं, संघो जो नाणचरणसंघातो । इह पवयपि तिस्थं तत्तोऽणत्यंतरं जेण ॥ १ ॥” (वि. १३८० ) तथा मृज्यते - शोध्यतेऽनेनात्मा इति For Private & Personal Use Only प्रवचनश्रु | ताथैकार्थ ता १२६-७ ॥ १२९॥ www.jainelibrary.org
SR No.600043
Book TitleAvashyakasutram Part_1
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy