SearchBrowseAboutContactDonate
Page Preview
Page 274
Loading...
Download File
Download File
Page Text
________________ NARAK व्याख्यानविधेरुपन्यासो निरर्थकः, तदयुक्तम् , अनुगमाङ्गतया निरर्थकत्वायोगात्, अनुगमाङ्गता च व्याख्याङ्गत्वादिति, तत्र जिनप्रवचनोत्पत्तिनियुक्तिसमुत्थानप्रसङ्गतोऽभिहिता, अहद्वचनत्वात् प्रवचनस्य, आह च 'सुवमिह जिणप्पवयणं तस्सुप्पत्ती पसंगतोऽभिहिया' इति ॥ सम्प्रति प्रवचनैकार्थिकानि तद्विभागं च प्रतिपादयन्नाह-(ग्रन्थाग्रं ५०००) एगठियाणि तिन्नि उपवयण सुत्तं तहेव अत्थो य । एकेकस्स य एत्तो नामा एगढिया पंच॥ १२६॥ एकोऽर्थो येषां तान्येकाथिकानि त्रीण्येव, कानि पुनस्तानीत्यत आह-प्रवचनम्-उक्तशब्दार्थ सूचनात्सूत्र अर्यते इत्यर्थः-अभिधेयं, चः समुच्चये, अत ऊर्दू एकैकस्य-प्रवचनस्य सूत्रस्य अर्थस्य च नामान्यकार्थिकानि पञ्च, इह प्रवचन सामान्यं श्रुतज्ञानं, सूत्रार्थों तु तद्विशेषौ, उक्तं च-"जमिह पगयं पसत्थं पहाणवयणंच पवयणं तं च । सामन्नं सुयनाणं विसेसतो सुत्तमत्थो य ॥१॥ (वि. १३६७)" आह-सूत्रार्थयोः प्रवचनेन सहकार्थता युक्ता, तयोस्तद्विषयत्वात् , सूत्रार्थों च परस्परविभिन्नौ, तथाहि-सूत्रं व्याख्येयमर्थस्तु तद्व्याख्यानमिति, अथवा त्रयाणामप्येषां भिन्नार्थतैव युक्त्युपपन्ना, प्रत्येकमेकार्थिकविभागसद्भावात् , घटपटशकटवद्, अन्यथा एकार्थतायां सत्यां भेदेनैकार्थिकाभिधानमयुक्त, घटकुम्भयोरिवति, अत्रोच्यते, इह यथा मुकुलविकसितयोः पद्मविशेषयोः सङ्कोचविकाशरूपपर्यायभेदेऽपि कमलसामान्यरूपत्वेनाभेदः तथा सूत्रार्थयोरपि प्रवचनापेक्षया परस्परतश्चाभेदः, तथाहि-अविवृतं मकुलतुल्यं सूत्र, तदेव विवृतं प्रबोधितं विकचकल्पमर्थः, प्रवचनं तुभयमपि, यथा च तेषां कमलसडोचविकाशानामेकार्थिकविभाग उपलभ्यते, कमलमरविन्दं पङ्कजमित्यादि प.कार्थिकानि तथा मकलं तं सहचितमित्यादीनि मुकुलकार्थिकानि तथा विकचं फुलं विबुद्धमित्यादीनि | Jain Education Inter For Private & Personal use only Virww.jainelibrary.org
SR No.600043
Book TitleAvashyakasutram Part_1
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy