________________
मा.सु. २२
Jain Education Interna
|तिनाम त्रीन्द्रियजातिनाम चतुरिन्द्रियजातिनाम इति, चः समुच्चये, तथा आतपनाम उद्योतनाम स्थावरनाम सूक्ष्मनाम साधारणनाम अपर्याप्तकनाम निद्रानिद्रां प्रचलाप्रचलां स्त्यानाद्धं च एताश्च षोडशापि कर्मप्रकृतीः क्षपयित्वा तदनन्तरं यदष्टानां कषायाणां शेषं तत् क्षपयति, सर्वमिदमन्तर्मुहूर्त्तमात्रेण, ततो नपुंसकवेदं ततः खीवेदं ततो हास्यादिषहूं, ततः पुरुषवेदस्य खण्डत्रयं कृत्वा खण्डद्वयं युगपत् क्षपयति, तृतीयं तु खण्डं सञ्जलनक्रोधे प्रक्षिपति, पुरुषे प्रतिपत्तर्यमं क्रमः, नपुंसकादौ प्रतिपत्तर्युपशमश्रेणिन्यायो वक्तव्यः, ततः क्रोधादीन् चतुरः संज्वलनान् प्रत्येकमन्तर्मुहूर्त्तमात्रेण क्षपयति, क्षपणं चैषां खण्डत्रयादिकरणक्रमेण पुरुषवेदवत् वाच्यं क्रोधसत्कं च तृतीयं खण्डं माने प्रक्षिपति, || मानसत्कं मायायां मायासत्कं लोभे, क्षपणकालश्च प्रत्येकं सर्वत्रान्तर्मुहूर्त्तप्रमाणो मन्तव्यः, श्रेणिरपि सर्वा अन्तर्मुहूर्तमाना, एकस्मिन्नप्यन्तर्मुहूर्त्ते लघुतराणामन्तर्मुहूर्त्तानामसङ्ख्येयानां भावात्, लोभस्य तु चरमं तृतीयं खण्डं सङ्ख्येयानि खण्डानि करोति, तानि च खण्डानि पृथक् पृथक् कालभेदेन क्षपयति, तेषामपि च सङ्ख्याततमं चरमं खण्डमसङ्ख्येयानि खण्डानि करोति, तानि तु समये समये एकैकशः क्षपयति । इह च क्षीणदर्शनसप्तको निवृत्तिवादर उच्यते, तत ऊर्द्ध| मनिवृत्तिवाद यावत् सङ्ख्याततमं चरमं लोभखण्डं, तत ऊर्द्धमसङ्ख्येयानि लोभखण्डानि प्रतिसमय मेकैकं क्षपयन् | सूक्ष्मसम्परायो यावच्चर मलोभांशक्षयः, अत ऊर्द्ध यथाख्यातचारित्री भवति, उक्तं च- “दंसणमोहक्खवणे, नियट्टि | अनियट्टिबादरो परतो । जाव उ सेसो संजलणलोभमसंखेज्जभागोत्ति ॥१॥ तदसंखेज्जयभागं समये समये खवेइ एक्केकं । पत्थ व सुहुमसरागो लोभाणू जाव इक्कोऽमि ॥ २ ॥ (वि. १६३०-१) स च महासमुद्रप्रतरणपरिभ्रान्तवत् मोहसागरं
For Private & Personal Use Only
w.jainelibrary.org