SearchBrowseAboutContactDonate
Page Preview
Page 268
Loading...
Download File
Download File
Page Text
________________ " | सम्यग्दृष्टिदेशविरतप्रमत्ताप्रमत्तसंयतानामन्यतमः, आह च - " पडिवत्तीए अविरय देसपमत्तापमत्तविरयाणं । अन्नयरो | पडिवज्जइ सुद्धज्झाणोवगयचित्तो ॥ १ ॥” (वि. १३१४) केवलं यद्यप्रमत्तसंयतः पूर्ववित् ततः शुक्लध्यानोपगतः श्रेणिमारभते, | शेषस्तु धर्मध्यानोपगतः, तत्र क्षेपक श्रेणिमारोहन् स प्रथममनन्तानुबन्धिनश्चतुरोऽपि क्रोधादीनन्तर्मुहूर्त्तेन युगपत् क्षपयति, तदनन्तभागं तु मिथ्यात्वे प्रक्षिप्य मिथ्यात्वं सहैव तेन युगपत् क्षपयति, यथा ह्यतिसम्भृतो दवानलः खल्वर्द्ध| दग्धेन्धन एवेन्धनान्तरमासाद्य उभयमपि दहति एवमसावपि क्षपकस्तीत्रशुभपरिणामत्वादवशेषमन्यत्र प्रक्षिप्य क्षपयति, | तदनन्तरं तथैव सम्यग्मिथ्यात्वं तदनन्तरमेव च सम्यक्त्वम्, इह यदि बद्धायुः क्षपकश्रेणिमारभते अनन्तानुबन्धिक्षयानन्तरं च मरणसम्भवतो व्युपरमते ततः कदाचिन्मिथ्यादर्शनोदयात् भूयोऽप्यनन्तानुबन्धिन उपचिनोति, तद्वीजस्य मिथ्यात्वस्याविनाशात्, क्षीणमिथ्यादर्शनस्तु न उपचिनोति, बीजाभावात्, क्षीणसप्तकत्वप्रतिपतितपरिणामो| sवश्यं त्रिदशेषु मध्ये समुत्पद्यते, प्रतिपतितपरिणामस्तु नानामतिसम्भवात् यथापरिणामं सर्वगतिभाग भवति, उक्तं च - " बद्धाऊ पडिवन्नो, पढमकसायक्खए जइ मरेज्जा । ता मिच्छत्तोदयतो चिणिज्ज भूतो न खीणंमि ॥ १ ॥ तंमि मतो जाइ दिवं तप्परिणामो य सत्तए खीणे । उवरयपरिणामो पुण पच्छा नाणामइगइओ ॥ २ ॥” (वि. १३१६ - ७) बद्धायुः कोऽपि यदि तदानीं कालं न करोति तथापि सप्तके क्षीणे नियमादवतिष्ठते, न चारित्रमोहक्षपणाय यत्नमादधाति, आह |च - " बद्धाऊ पडिवन्नो नियमा खीणंमि सत्तए ठाए ।” अत्राह - ननु यदि दर्शन त्रिकमपि क्षयमुपनीतं ततः किमसौ सम्य - | ग्दृष्टिरुतासम्यग्दृष्टिः १, उच्यते, सम्यग्दृष्टिः, सम्यग्दर्शनाभावे सम्यग्दृष्टित्वमनुपपन्नमिति चेत्, तदसद्, अभिप्रा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600043
Book TitleAvashyakasutram Part_1
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy