________________
ANDRASHES
लभेदेनोपशमयति, तत एतेषां सोयानां खण्डानां यच्चरम खण्डं तदसायेयानि खण्डानि करोति, ततः समये समये| एकैकं खण्डमुपशमयति, इह दर्शनसप्तके उपशान्तेऽपूर्वकरणोऽनिवृत्तिबादरो वाऽभिधीयते, स चानिवृत्तिबादरस्तावद् | यावत् सङ्ख्येयान्तिमचरमखण्डं । ननूपशमश्रेणिप्रस्थापकोऽप्रमत्तसंयत एव 'उवसागमसेढीए पढवगो अप्पमत्तविरतो ये' इति | वचनात् , अप्रमत्तसंयतश्च अनन्तानुबन्ध्यप्रत्याख्यानप्रत्याख्यानावरणमिथ्यात्वसम्यग्मिथ्यात्वानामुपशमाद् भवति, अन्यथा तेषामुदये सम्यक्त्वादिलाभायोगात्, तथा चाभिहितं प्राक्-'पढमेल्लुयाण उदये'इत्यादि, ततः कथमिदानीं तेषामु-18 पशमो भण्यते इति, तदसत्, सम्यक् सिद्धान्तापरिज्ञानात्, पूर्व हि तेषां क्षयोपशम एवासीत्, नोपशमः, इदानी तूपशमः क्रियते । ननु क्षयोपशमोऽप्युदिते कर्माशे क्षीणेऽनुदिते च उपशान्ते भवति, उपशमोऽपि चेत्थंभूत एव, ततः कोऽनयोः प्रतिविशेषो येनैवमुच्यते-पूर्व क्षयोपशम आसीत् इदानीं तूपशमः क्रियते इति, उच्यते, इह क्षयोपशमे तदावारकस्य कर्मणः प्रदेशतोऽनुभवोऽस्ति, उपशमे तु स न भवतीति प्रतिविशेषः, आह च भाष्यकृत्-"वेएइ संतकम्म| खतोवसमिएसु नाणुभावं सो। उवसंतकसाओ पुण, वेएइ न संतकम्मपि ॥१॥" (वि. १२९३) ननु यदि सत्यपिक्षयोपशमेऽन-17 न्तानुबन्ध्यादिकषायमिथ्यात्वानां प्रदेशतोऽनुभवोऽस्ति तर्हि कथं न सम्यक्त्वादिगुणविधात उपजायते?, तदुदये ह्यवश्य सम्यक्त्वादिगुणलाभः सन्नप्यपगच्छति, यथा सास्वादनसम्यग्दृष्टेरिति, नैष दोषः, प्रदेशतोऽनुभवस्य मन्दानुभावत्वात् , मन्दानुभावो ह्युदयोन स्वावार्यगुणविघातमाधातुमलं,यथा चतुर्तानिनो मतिज्ञानावरणादीनां विपाकतोऽप्युदयः, तथाहि-मतिज्ञानावरणादिकं कर्म ध्रुवोदयं ध्रुवोदयत्वाचावश्यं सर्वदा विपाकतोऽनुभवनीय, विपाकानुभवापेक्षयेव ध्रुवोद
Jain Education International
For Private & Personal use only
www.jainelibrary.org