________________
KAR
सम्परायान्तरं 'अथाख्यातम्' अथशब्दो यथार्थे आङ् अभिविधौयायातय्येन अभिविधिना च यत् ख्यातं कथितमकषायं चारित्रमिति तत् अथाख्यातं, उक्कं च-"अहसदो जाहत्थे आडाभिविहीऍ कहियमक्खायं । चरणमकसायमु-18 दितं तमहक्खायं जहक्खायं ॥१॥" (वि.१२७९) यथाख्यातमिति द्वितीयं नाम, तस्यायमन्वर्थः-यथा सर्वस्मिन् जीवलोके ख्यातं-प्रसिद्धमकषायं भवति चारित्रमिति तथैव यत् तद्यथाख्यातं, तथा चाह-ख्यातं-प्रसिद्धं सर्वस्मिन् जीव-IP लोके, यत् कथंभूतमित्याह-यच्चरित्वा-आसेव्य शोभनं विहितम्-अनुष्ठानं येषां ते सुविहिताः-सुसाधवो वजन्त्यजरामरं-18 विद्यते जरा यत्र तदजरं न घियते प्राणी यत्र तदमरम् , अच्प्रत्ययो बाहुलकात् , अजरं च तदमरं च अजरामरंमोक्षलक्षणं स्थानं, इदं च द्विधा, तद्यथा-छाद्मस्थिकं कैवलिकं च, तत्र छानस्थिकमुपशान्तमोगुणस्थाने क्षीणमोहगुणस्थानके वा, कैवलिक सयोगिकेवलिभवं अयोगिकेवलिभवं च । इह सूक्ष्मसम्परायं यथाख्यातचारित्रं च उपशमक्षयलभ्यमतः कर्मोपशमक्रमप्रदर्शनार्थमाह| अण-दस-नपुंसि-स्थीवेय-छक्कं च पुरिसवेयं च । दो दो एगंतरिए, सरिसे सरिसं उवसमेह ॥ ११६ ॥
इह उपशमश्रेणिप्रारम्भको भवत्यप्रमत्तसंयत एव, अन्ये त्वविरतदेशविरतप्रमत्तसंयताप्रमत्तसंयतानामन्यतम इति, उपशमश्रेणिपर्यवसाने स्वप्रमत्तसंयतप्रमत्तसंयतदेशविरताविरतानामन्यतमः, उक्तं च-"उवसामगसेढीए पट्ठवगो अप्पमत्तविरतो उ । पजवसाणे सो वा होइ पमत्तो अविरतो वा ॥१॥ अन्ने भणंति अविरयदेसपमत्तापमत्तविरयाणं । अन्नयरो पडिवजह सणसमणम्मि उनियट्टी ॥२॥ (वि.१२८५-६)स चेत्थमुपशमश्रेणिमारभते-'अण'त्ति 'अणरणेत्यादि
*
**
Jain Education Inter
For Private & Personal use only
ww.jainelibrary.org