________________
CHCECAUSA
द्धिठाणं तु॥२॥" (पं. १५०९-११) प्रव्रज्याद्वारे नासावन्यं प्रव्राजयति कल्पस्थितिरेषेतिकृत्वा, आह -"पावेइ न एसो अन्नं कप्पद्विइति काऊणं।" (पं. १५१०) उपदेशं पुनर्यथाशक्ति प्रयच्छति, मुण्डापनाद्वारेऽपि नासावन्यं मुण्डयति, अथ प्रवज्यानन्तरं नियमतो मुण्डनमिति प्रव्रज्याग्रहणेनैव गृहीतमतः किमर्थमिदं पृथग द्वारं , तदयुक्तं, प्रव्रज्यानन्तरं नियमतो मुण्डापनस्यासम्भवाद्, अयोग्यस्य कथञ्चिद्दत्तायामपि प्रव्रज्यायां पुनरयोग्यतापरिज्ञाने मुण्डापना|ऽयोगात्, ततः पृथगिदं द्वारमिति । प्रायश्चित्तविधिद्वारे मनसाऽपि सूक्ष्ममप्यतिचारं प्राप्तस्य नियमतश्चतुर्गुरुकं प्रायचिचं, यतोऽस्य कल्प एकाग्रताप्रधानस्ततस्तद्भङ्गे गुरुतरो दोष इति । कारणद्वारे-कारणं नाम आलम्बनं, तत्पुनः सुपरिशुद्ध ज्ञानादिकं, तच्चास्य न विद्यते येन तदाश्रित्यापवादपदसेविता स्यात्, एष हि सर्वत्र निरपेक्षः क्लिष्टकर्मक्षय
निमित्तं प्रारब्धमेव स्वं कल्पं यथोक्तविधिना समापयन् महात्मा वर्तते, उफ च-"कारणमालंबणमो तं पुण नाणाइयं जासुपरिसुद्धं । एयस्स तं न विजइ उचियंतपसाहणा पायं ॥१॥ सवत्थ निरवइक्खो, आढत्तं चिय ददं समाणितो।
वह एस महप्पा, किलिङकम्मक्खयनिमित्तं ॥२॥(पं. १५१७-८)" निष्प्रतिकर्मताद्वारे एष महात्मा निष्प्रतिककर्मशरीरोऽक्षिमलादिकमपि कदाचिन्नापनयति, न च प्राणान्तिकेऽपि समापतिते व्यसने द्वितीयपदमासेवते, उक्कं च
"निप्पडिकम्मसरीरो अच्छिमलाईवि नावणेइ सया। पाणंतिएविय तहा वसणंमि न वट्टए बीए ॥१॥ अप्पबहुत्तालोयणविसयातीतो उ होइ एसत्ति । अहवा सुहभावातो बहुगं एयंचिय इमस्स ॥२॥ (पं. १५१९-२०)" भिक्षाद्वारे पथद्वारेच भिक्षा विहारक्रमश्चास्य तृतीयस्यां पौरुष्यांभवति, शेषासु च पौरुषीषु कायोत्सर्गों, निद्राऽपि चास्याल्पा द्रष्टव्या,
Jain Education Interational
For Private & Personal use only
www.jainelibrary.org