________________
न्ध्यप्रत्याख्यानकपायप्रत्याख्यानावरणानां द्वादशानां कषायाणामुदये, तथा सम्-ईषत्परीषहादिसम्पाते चारित्रिणमपि | ज्वलयन्तीति सचलनाः क्रोधादयस्तेषामुदये न लभते चरणं चारित्रं, किं सर्वमेव १, नेत्याह- 'यथाख्यातं ' यथैव तीर्थ| करगणधरैराख्यातमकषायं भवति चारित्रमिति तथैव यत् तद् यथाख्यातम्, अकषायमित्यर्थः, सकषायं तु लभते एव ॥ न च यथाख्यातचारित्रमात्रोपघातिन एव सञ्ज्वलनाः, किन्तु शेषचारित्र देशोपघातिनोऽपि तदुदये शेषचारित्रस्थापि | देशतोऽतिचारसम्भवात्, तथा चाह
सदेवि य अइयारा संजलणाणं तु उदयओ होंति । मूलच्छेज्जं पुण होइ बारसहं कसायाणं ॥ ११२ ॥ सर्वेऽपि आलोचनादिच्छेदपर्यन्तप्रायश्चित्तशोध्या अपिशब्दात् कियन्तोऽपि अतिचरणान्यविचाराः - चारित्रस्खलन| विशेषाः सञ्ज्वलनानामेवोदयतो भवन्ति, तुशब्द एवकारार्थः, द्वादशानां पुनः कषायाणामुदयतो मूलच्छेद्यं भवति, | मूलेन - अष्टमस्थानवर्त्तिना प्रायश्चित्तेन छिद्यते- अपनीयते यत् दोषजातं तत् मूलच्छेद्यम्, अशेषचारित्रोच्छेदकारीति भावः, पुनः शब्दः प्रक्रान्तार्थविशेषक एव भवति द्वादशानामनन्तानुबन्ध्यप्रत्याख्यानप्रत्याख्यानावरणलक्षणानां कषायाणामुदये, अथवा मूलच्छेद्यं दोषजातं यथासम्भवतो योज्यते, तद्यथा - प्रत्याख्यानावरणकपायचतुष्टयोदये सर्वविरति रूपस्य चारित्रस्य मूलच्छेद्यं - सर्वनाशरूपं दोषजातं भवति, अप्रत्याख्यानकषाय चतुष्टयोदये देशविरर्तिचारित्रस्य, अनन्तानुबन्धिकषायचतुष्टयोदये तु सम्यक्त्वस्येति ॥ यतश्चैवमतः
बारसविहे कसाए, खइए उबसामिए व जोगेहिं । लब्भइ चरितलंभो, तस्स विसेसा इमे पंच ॥ ११३ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org