SearchBrowseAboutContactDonate
Page Preview
Page 251
Loading...
Download File
Download File
Page Text
________________ RAA उपोद्धात कारणाः प्रत्याख्यानावरणा इति नामधेयं येषां ते प्रत्याख्यानावरणनामधेयाः तेषां, नन्वप्रत्याख्याननामधेयानामुदये प्रत्या-पादेशमय. नियुक्तिः ख्यानं नास्तीत्युक्तं, नत्रा प्रतिषिद्धत्वात्, इहापि चावरणशब्देन प्रत्याख्यानप्रतिषेध एवाभिधीयते, ततः क एषां प्रतिवि-दाभायात ॥११७॥ दोषः, उच्यते, तत्र नञ् सर्वनिषेधवचनः, इह पुनराङमर्यादायामीषदर्थे वेति, ईषन्मर्यादया वाऽऽवृण्वन्तीत्यावरणा- चारित्रावा स्ततः सर्वविरतिनिषेध एवायमावरणशब्दो वर्त्तते, न देशविरतिनिषेधे इति महान् विशेषः, आह च-"सवं पच्चक्खाणं, वरति ते जंन देसमेएणं । पच्चक्खाणावरणा आमज्जादीसदत्थेसु॥१॥” (वि.१२३५) देशश्च एकदेशश्च देशैकदेशी, तत्र देशः-स्थूरमाणातिपातादिः एकदेशस्तु-तस्यैव दृश्यवनस्पतिकायाद्यतिपातः तयोर्देशैकदेशयोविरतिः-निवृत्तिस्तां, लभंते ४ इति वाक्यशेषः, अत्रापि वाक्यशेषः 'चरित्तलंभ नउ लहंती'त्यत्र तुशब्दोपदानाल्लभ्यते, यत आह-'चरित्ते'त्यादि, 'चर गतिभक्षणयोः' चरन्ति-गच्छन्त्यनिन्दितमनेनेति चरित्रं, 'खनसहलूधूवतें'रिति इत्रप्रत्ययः, चरित्रमेव चारित्रं, किमुक्तं भवति -अन्यजन्मोपात्ताष्टविधकर्मसञ्चयापचयाय चरण-सर्वसावद्ययोगनिवृत्तिरूपं चारित्रमिति तस्य लाभश्चारित्रला-1 भस्तं न तु लभन्ते, तुशब्दात् देशैकदेशविरतिं तु लभन्ते एवेति ॥ अमुमेवार्थ सगृह्य विभणिषुस्तथा चतुर्थकषायाणां है यथाख्यातचारित्रादिविघातित्वं च दिदर्शयिषुराह- . १ ॥११७॥ मूलगुणाणं लंभ, न लहइ मूलगुणघाइणो उदए । संजलणाणं उदए न लहइ चरणं अहक्खायं ॥ १११ ॥ इह सम्यक्त्वं महाव्रतान्यणुव्रतानि च मूलभूता गुणाः मूलगुणाः, उत्तरगुणाधारा इत्यर्थः, तेषां मूलगुणानां लाभन लभते-न पामोति, कदेत्याह-मूलगुणान् घातयितुं शीलं येषां ते मूलगुणघातिनः तेषां मूलगुणघातिनाम्-अनन्तानुब 2004C0CANCE % Jain Education temational For Private & Personal Use Only viwww.jainelibrary.org
SR No.600043
Book TitleAvashyakasutram Part_1
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy