SearchBrowseAboutContactDonate
Page Preview
Page 250
Loading...
Download File
Download File
Page Text
________________ क BACKRAM- भवग्रहणेन, सत्यमेतत्, केवलं भवग्रहणादिह तद्भवो गृह्यते, तद्भवसिद्धिका अपि न लभन्ते, किं पुनः परीत्तसंसारिणः अभव्या वेति ॥ उक्काः सम्यक्त्वस्यावरणभूताः कषायाः, सम्प्रति देशविरत्यावरणभूतान् तान् प्रतिपादयति|. बीयकसायाणदए, अपचक्खाणनामधेजाणं । सम्मइंसणलंभ, विरयाविरई न उ लहंति ॥१९॥ द्वितीयाश्च ते कषायाच द्वितीयकषायास्तेषां, द्वितीयता देशविरतिलक्षणद्वितीयगुणविघातित्वात् क्षपणक्रमाद्वा, उदये, 'प्रत्याख्याननामधेयानां न विद्यते देशतः सर्वतो वा प्रत्याख्यानं येषूदयप्राप्तेषु तेऽप्रत्याख्यानाः, सर्वनिषेधवाची न, आह च-"सह देसो व जतो, पञ्चक्खाणं न जेसिमुदएणं । ते अप्पचक्खाणा सबनिसेहे मतोऽकारो॥१॥" (वि. १२३२) अप्रत्याख्याना इति नामधेयं येषां तेऽप्रत्याख्याननामधेयास्तेषामुदये, सम्यग्दर्शनलाभ, भव्या लभन्त इति वाक्यशेषः, अयं च वाक्यशेषो विरताविरतिविशेषकतुशब्दसंसूचितो द्रष्टव्यः, आह च-"सम्मइंसणलंभं, लहिंति भविपत्ति वक्सेसोऽयं । विरयाविरइविसेसणतुसादसंलक्खितोऽयं च ॥१॥" (वि.१२३३) तथा विरमणं विरतं तथा न विरतिरविरतिर्विरतं चाविरतिश्च विरताविरतिर्देशविरतिरित्यर्थः तां नतु लभंते, तुशब्दात् सम्यग्दर्शनं तु लभंते इति भावः॥ अथ तृतीयस्य सर्वविरतिगुणस्यावारकान् तृतीयकषायानाह तइयकसायाणुदए, पञ्चक्खाणावरणनामधेजाणं । देसिकदेसविरई, चरित्तलंभं न उ लहंति ॥ ११०॥ सर्वविरतिलक्षणतृतीयगुणविघातित्वात् क्षपणक्रमाद्वा तृतीयास्ते च ते कषायाश्च तृतीयकपायास्तेषामुदये, किंविशिद्राष्टानामित्याह-आवृण्वन्तीत्यावरणाः, 'कृद्हुल'मिति कर्यन,प्रत्याख्यानं-सर्वविरविलक्षणं तस्यावरणाःप्रत्याख्यानाव स, अयं च वाक्यशेषोप येषां तेऽपत्याख्यात अप्पचक्खाणार Jain Education Inter For Private & Personal use only N w.jainelibrary.org
SR No.600043
Book TitleAvashyakasutram Part_1
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy